________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे
॥ १७८ ॥
Vae
तो दोषवतीस्त्यक्त्वा, श्रये गुणगुरून् गुरून् । त्यक्त्वाऽसतः सतः श्रित्वा-भून्सुखी हि प्रभाकरः ॥ ९३ ॥ मेदिनीतिलके विप्रो, दिवाकरतनूद्भवः । अभूत्प्रभाकरो द्यूतकारो मूर्खेकशेखरः ॥ ९४ ॥ गायत्रीमात्रकेऽप्यज्ञं, तं मुमूर्षुः कदाचन । अध्यापिपत् पिता लोकमेकमत्यादरादिमम् ॥ ९५ ॥ मुद्रितोपद्रवातङ्कः, पुरुषेण हितैषिणा । निधिर्नवाधिको मूर्त्तः, कर्त्तव्यः साधुसंगमः ।। ९६ ॥ ताते परासुतां प्राप्ते, निःश्रीर्धूताद भूदयम् । अक्षमः कुक्षिपूरेऽपि, नगरान्निरगात्ततः ।। ९७ ।। दध्यौ पित्रा कुतः कार्ये, संगमं सममुत्तमैः । तावन्नीचं परीक्षिष्ये, करिष्ये चरमं च तम् ॥ ९८ ॥ अश्रद्धालुरिति ध्यात्वा प्राप्तः कीर्त्तिपुरं पुरम् । दुष्टाशयाभिधानं च, नीचं ठक्कुरमाश्रितः ।। ९९ ।। दौर्जन्यैकनटी तस्य, चेटी गोमटिकाभिधा । चक्रे कलत्रं मित्रं च, मातङ्गस्तेन सूत्रितः ॥ ७०० ॥ दानशौण्डं स्फुरन्नीतिताण्डवोल्लास लासकम् । द्राघिष्टविदुषष्पृष्टगोष्ठीनिष्ठुरकौतुकम् ॥ १ ॥ ठक्कुरेणान्वितस्तेन, क्ष्मापति कीर्तिशेखरम् । अनध्ययन' खिन्नोऽन्तः प्रत्यहं भजति स्म सः ॥ २ ॥ अथ मध्ये सुवीवृन्दमासीने क्ष्मापुरन्दरे । सख्यं समानशीलेषु, स्यादिति प्रस्तुता कथा ॥ ३ ॥ कथंचिदभ्यस्तचरस्तेनापि द्विजसूनुना । श्लोकोऽयं पठितः स्पष्टवर्णकर्णामृतं तदा ॥ ४ ॥
99
" मृगा मृगेः संगमनुव्रजन्ति, गावश्ध गोभिस्तुरगास्तुरंगे : मूर्खाच मूर्खः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम् ||५|| ' इत्याकर्ण्य महीशक्रस्तच्चक्रं च विपश्चिताम् । जज्ञे स्फारचमत्कारा नद ( ट ) न्मौलीमनोहरम् || ६ || स्फुरन्निजद्विजश्रेष्ठी विलासेन वितन्वता । द्विजो सत्त्वमिव स्वस्याप्युर्वीशेनैष जल्पितः ॥ ७ ॥ सिक्तः प्रीतिरसेनाहं भवता भोः प्रभाकर ! । तस्मात्प्रसाददानेन, गृहाण ग्राममण्डलम् ॥ ८ ॥ प्रभोरौचित्यमारोग्यं, श्रीमतो भूभृतः क्षमा । उपकर्तुः प्रभुत्वं च पीयूषाणां चतुष्टयम् ॥ ९ ॥ प्रसन्नं मयि देवस्य चेतश्चेत्तन्मम प्रभोः । इदमस्य प्रसादेन, देहीत्युचे प्रभाकरः ॥ ७१० ॥ पृथ्वीभृति तथेत्युक्तवति दुष्टाशयः
१ खिन्नोऽभूत् B २ द्विजेश त्वमिव स्वस्याप्युर्वीशेनैव B C D ३ प्रसन्नमपि CD
साधुसमा गमलाभे
प्रभाकरकथा |
।। १७८ ।।