________________
उपदेशमाला
विशेषवृत्तौ जम्बूचरित्रे
॥ १५७ ॥
अथ वसुमतीनगर्यामाचार्योऽनार्यकार्यवर्जयिता । विजहार श्रीवसुदत्तनामधेयो सतां ध्येयः ॥ २४ ॥ परिसरवसुन्धरायां तेषां सद्धर्मदेशनासुधया । निर्वापयतां भवतापतप्तचित्ताननेकजनान् ।। २५ ।। शुभचर्याः सोदर्याश्चत्वारस्तेऽप्युपेत्य सत्यगिरः । प्रणिपत्य धर्ममर्माणि कर्मनाशाय शृण्वन्ति ॥ २६ ॥ वचनसुधाधाराम्भः, पायं पायं श्रवाञ्जलिपुटेन । चत्वारोऽपि बभूवुर्भावितमनसो विशेपेण ॥ २७ ॥ प्रणिपत्य गृहानीयुर्विजयोऽजल्पद्रतं प्रहीष्यामि । वदति स्म जयन्तोऽहमपि बान्धव ! प्रत्रजिष्यामि ॥ २८ ॥ किं त्वद्यापि न पुत्रः पर्याप्तो वेश्मभारमुद्वोढुम् । कतिपयमासानन्तरमुभावपि प्रत्रजिष्यावः ॥ २९ ॥ क्वचिदवसरे व्यलोकयदागच्छन्ती पितुर्गृहात्सायम् । स्मरमिव भुजङ्गमेकं, युवतिर्जाया जयन्तस्य ।। ४३० || संजिगमिषा प्रकर्षात्तस्य तया मनसिजज्वरार्दितया । अतितनुपीडाव्याजोऽज्ञापयत भर्त्रे जयन्ताय ॥ ३१ ॥ आगच्छत्सु चिकित्सावित्सु चिकित्सासु कार्यमाणासु । न खलु मनागपि तस्याः, सा व्याजरुजा शममयासीत् ॥ ३२ ॥ व्याजप्राणाचार्यः स भुजङ्गः प्रापितो जयन्तेन । निजजायायाः पार्श्वे, चिकित्सितुं तनुरुजामुग्रम् ॥ ३३ ॥ उपपतिरिति विज्ञातः, कालात्कियतोऽपि तेन स स्वदृशा । परजनमुखेन तत्रागच्छं निवारयांचक्रे ॥ ३४ ॥ यावत्तथापि न त्यजति, तां ततो मारणार्थमादिष्टाः । निजपत्तयश्छलंते, मृगयन्ते तस्य तात्पर्यात् ॥ ३५ ॥ बहुलनिशीथे तैः, कपि तस्य सदनाद्विनिस्सरन्निहतः । अहह भुजङ्गभ्रान्त्या, बन्धुर्विजयो जयन्तस्य || ३६ || असममसमंजसं जातमेतदाकर्ण्यकर्णकाकोलम् । बन्धुवियोगव्यथयाऽतिदुस्थितोऽजायत जयन्तः || ३७ || पूर्वविरक्तस्तस्मादतिवैराग्याद्दिदीक्षिषुः सुजयः । विजयो यथा द्विमासीं तेनैव विलम्बयामास ॥ ३८ ॥ कतिपयदिनावसाने, विविक्षवः केचनापि लुण्टाकाः । अर्दिदिषत सुजातेन, स्वपिति न भीतस्ततो रात्रौ ॥ ३९ ॥ सुजयोऽपि तत्र रात्रावेति स्वापाय नित्यमप्यभयः । लुण्टाकलोकरक्षानिबद्धकक्षः प्रदोषेऽपि ||४४०|| व्यग्रतयाऽथ कदाचिन्निशीथसमये स आपतन् ददृशे । सदनोपरि संचारेण, सत्वरं स्वानुजभ्राता ॥ ४१ ॥ उपसृत्य मण्डलाग्रप्रहारतः पचतां ततो गमितः । प्रविशच्चौर भ्रान्त्या, ज्ञात्वा च शुशोच सुचिरमसौ ॥ ४२ ॥ व्यतिकरमेवं ज्ञात्वाऽनुतापपावकनिकामतप्ततनुः । सुबहुसुजातोऽशौचीद्विदितोदन्तो जयन्तोऽपि ॥ ४३ ॥ भयचकितकुरङ्गीलोचने पद्मसेने !, विदितमिदमशेषं मत्कथाया रहस्यम् ।
विजयसुजय
यो र्निष्फला
दीक्षाभि
लाषा ।
॥ १५७ ॥