________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे
Vacabove
Doraemerc
Peeeeeeeeozpeeze
नामधेयविख्याताः। सुकुलोत्पन्नाः कन्यास्ते चोपायंसत चतस्रः ॥ ८७ ॥ द्वित्रिचतुरादिपुत्रैस्ते फलिताः प्रौढपनसपादपवत् ।। गृहमारधुराधारणधौरेयत्वं दधुः सुधियः ॥ ८८ ॥ अथ सोमधर्मणा धर्मराजराज्ये यियासुना सर्वः । आकार्य गोत्रिकादिस्वजनजनो
विजयसुजय
दृष्टान्तः। भोजयांचक्रे ॥ ८९ ॥ स जगौ-तस्य समक्षं चतुरश्चतुरसुनूद्भवांस्तान् स्वान् । मा वत्साः! कार्युः सर्वथा, मिथः कलहकालुष्यम् ॥३९० ॥ कीर्तिलता कूल्याम्भो, धर्माकुरप्ररोहणेकमही । सौख्यसुधांशुशुधांशुः, संवित्तिर्यत्कुटुम्बस्य ॥ ९१॥ अथ कथमपि सं. वित्तिस्तुद्यत्यन्योन्यमङ्गना वचनात् । सुनयास्तथापि तनया, न विरोद्धव्यं न योद्धव्यम् ॥ ९२ ॥ यतः-"अपकीर्तिः सुरावासः, सुखप्रवासः कुवासनाभ्यासः। पापस्यकनिवासः, परस्परं यः कुले कलहः ॥ ९३ ॥” अपि बन्धूनां द्वधं, विदधानानां कुकर्णजापेन । मा कर्णे काट वचः सदाऽबलानां खलानां च ॥ ९४ ।। यदि तु कुतोऽपि भवन्तो, विभेजिवांसो भवेयुरुपरोधात् । क्रमशः कोणचतुष्कात् , तदा निधानानि गृह्णीयुः ।। ९५ ।। कतिपयदिवसैर्जाते, ताते प्रेतेशवेश्मवास्तव्ये । प्राग्वत्प्रीत्या वतियत ते प्रभूतानि वर्षाणि ॥ ९६ ॥ सुमहति कुटुम्बभारे, जाते यावन्न शक्नुवन्त्येव । वर्तितुमेकत्र ततो, विभक्तभावं विनिश्चिक्युः ॥ ९७ ।। द्रव्य दृश्यं विज्ञातमस्ति, यावद्विभाजयन्ति निधीन् । तावद्गवाश्वकेशाः प्रादुरभूवन्विजयकलशे ॥ ९८ ॥ क्षेत्रस्य मृदन्यस्मिन् , तदुत्तरस्मिन्पुराणवहिकास्ताः । मणिरत्नहेमदीनारसंचयस्त्वन्तिमनिधाने ॥ ९९ ।। कलशं स्वकीयमालोक्य, मांसलामोदकंदलितहृदयः । नरिनर्ति स्म जयन्तः, शेषास्तु तपस्विनः शुशुभुः ॥ ४००॥ हहहा तातेनोच्चै किमवश्चिष्महि तदा हि नाविद्म । प्रक्षिप्य कूपकुहरे, त्रीनवोट्यत वरत्रा द्राक् ॥ १॥ सर्वकनिष्ठः प्रागपि, पितुः प्रविष्टो मनस्यभूद्भूयः । कोऽपि विकारः केनापि, किन्तु नालक्ष्यतास्माकम् ॥ २॥ तदिदानी किं कुर्मः, पूत्कुर्मः कस्य तातदेवहताः। यदि वा सर्वेषां सर्वमेव कुर्मश्चतुर्भागम् ॥ ३॥ वदति || स्म जयन्तस्तानेतन्न कदापि लभ्यते कर्तुम् । स्वमुखविभक्ते तातेन, विभवजाते पुनः किमिदम् ॥४॥ कनकादितुल्यमासीद्भवदप्राप्त्या मृदादितामगमत् । तत्कुप्यत पापेभ्यः, स्वेभ्यस्ताताय मैव पुनः ॥५॥ अथ बहलकलहकोलाहलाः स्वकं स्वजनवर्गमुल्लङ्घ्य ।
॥१५५॥ अहमहमिकया जयमित्रपार्थिवं द्रागुपास्थिषत ॥ ६॥ सम्प्रतिपत्तिस्तेषां, तेनापि न पार्यते स्म कारयितुम् । अपरापरपुरपरिषत्पर्य
e neKRECORDC