________________
उपदेशमाला
विशेषवृत्तौ जम्बूचरित्रे
॥ १५० ॥
प्रेक्ष्य मूल्यमुक्तस्तदेवावादीत् । सिद्धदत्तेन चिन्तयांचक्रे - किमिदं मर्कटस्य जयकुञ्जरमूल्यम् । तद्भवितव्यं हेतुना केनापि । तदन्तस्तावदालोकयामीति विसृत्य वीक्षते प्रथमं पत्रम् - " प्राप्तव्यमर्थं लभते मनुष्यः " इति । अये ! उपजातेरेक एवायं पादः । कटरे मम हृदयसंवादः । इयमेव परमार्थव्यवस्था । इति दीनारपञ्चशतीं प्रदायाऽऽदायि पुस्तिका । यावत्तमेव पादं परामृशन् कथमयं श्लोकः शेषपादत्रयी प्रवित्रः स्यादिति ध्यायंश्चिन्तारत्नप्राप्ते चात्मानं कृतार्थं मन्यमान आस्ते तावत्प्रातिवेश्मि कवणिक्पुत्रैस्तालोत्तालवाचालैरहो सदायप्रायापूर्वक्रयाणक्रयेण वर्द्धिता गृहवार्त्तेत्युपहसद्भिः प्रकाशितोऽयमर्थः पुरन्दरस्य, सकोपोऽयमुपागतस्तत्र दिनाय व्ययविलोकनाय । पुस्तिकाक्रये दीनारपञ्चशतीव्ययं विलोक्य प्रोक्तं पित्रा कुत्रार्थे व्ययोऽयमियान् । के वयं विद्वांसः पुस्तकसंग्रहाग्रहग्रहिलो यदि परं भवानेव विद्वान् । विक्रीयमाणयाऽप्यनया न कोऽपि पानीयमपि पाययति । तद्रूज त्यज मद्गृहामेतावता वितेनोपात्तेनात्र प्रवेष्टव्यम् । तत एतावद्भिः सहस्रैरर्जितैर्मयाऽऽगन्तव्यमिति निश्चित्य निःसृतोऽयं प्रदोषे । स्थितः पत्तनान्तर्वर्तिनि देव - कुले क्वापि क्षपाक्षेपणाय । तत्पादतात्पर्यं पर्यालोचयन्निश्चिन्तः सुखं सुष्वाप ।
इतश्च तस्यामेव पुर्यां राजामात्यपुरोधः पुत्रिकाणां रतिमञ्जरी - रत्नमञ्जरी - गुणमञ्जरीणां सहसंवाससंजातनिस्सीम सख्यानां विप्रयोगभीरूणामेकदा संलापः समजनि । किल बालकालभावादे तावन्तं कालं सहपांसुक्रीडासुखमन्वभूम, संप्रति पुनरलंक्रियामहे वैरिणा यौवनेन । न जानीमो विधिवात्ययोत्पाद्य क्वापि प्रक्षेष्यामहे, ततो राजाङ्गजया जजल्पे यद्येवं नाम युष्माकमन्योन्यं स्नेहानुबन्धस्तदा यावदद्यापि जनकैः क्वापि कस्यापि न वितीर्यामहे तावद् भवामः कस्याप्येकस्य स्वयमेव स्वयंवरा येन यावदायुरवियुक्ता वर्त्तामहे । प्रतिपन्नमेतदशेषाभिः । ततो राजाङ्गजया दूरदेशायातो महाकुलीनः कोऽपि पृथ्वीपतिपुत्रः पितृसेवको वीरसेननामा समाकार्य प्रच्छन्नं प्रोक्तः प्रस्तुतार्थे । तेनापि तत्तरुणिमोभेदभिदुर हृदयेन प्रतिपन्नमेतत् । पुरीपरिसरमुरागारमण्डपमध्ये तरलतरतुरङ्गसाधनसधीचा त्वया तृतीयदिने निशीथिन्यां स्थातव्यं येन परिणीय पलायामहे इति कृतसङ्केतस्य तस्यागतं तद्दिनं । तत्र च तत्कालप्राप्तेन तत्तातवैरिवारेणाऽऽरब्धोऽयं योद्धून् । स्वल्पबलोऽनल्पबलेन परिभूतो गतः स्वदेशम् । राजाङ्गजाऽपि जातायां याममा
सिद्धदत्तेन
पुस्तिका -
क्रयणम् ।
।। १५० ।।