________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे
॥ १४९ ॥
नालोक्य बुभुक्षुभिक्षयिषति पूजाव्याजेन परं किं क्रियते व्यसनार्त्तचेतोभिः । “नैमित्तिकानां भिषजां द्विजानां ज्योतिर्विदां मन्त्रकृतां च पुण्यैः । लक्ष्मीवतां वेश्मसु देहपीडाभूतग्रहादिव्यसनं समेति ॥ ३३९ ॥ " इत्यर्पितं दीनारशतं तस्य हस्ते । रात्रौ भट्टारिकामन्दिरान्तः प्रविश्य प्रदत्तद्वारक पाटसंपुटः प्राह स्म । किमिति कृत्ये प्रकृत्या न भवसि ? । कृतपूतने ! मण्डितं विज्ञानं किंचिन्न करोषि मदुक्तं युक्तम् । तदस्तु वक्रवेधस्य वक्रा कीलिकेति यावज्जिह्वायां विष्टायै संरंभते तावन्न किंचिदेतस्य पापीयसोऽकर्त्त_व्यमस्तीति, जाता यथावस्थितमूर्त्तिरेषा । जातमुपप्लवप्रशमात् पत्तने सौख्यम् । अन्यदा द्यूतहारितमस्तकपणः प्राप्तोऽसौ भट्टारि कायाः पुरः प्रोवाच ।
देवि ! देहि पणितहारितमस्तकस्य मे तन्मोचनमूल्यं दीनारपंचशतीम् । भट्टा० - किं त्वया त्वत्पित्रा वा मत्पार्श्वे निक्षिप्तमासीत् । द्यूत० - मातर्न निक्षेपकः कोऽपि, किन्तु मस्तकच्छेदान्ते व्यसने स्मृता त्रायस्व माम् । भट्टा० - किं न त्रायिष्ये त्वद्भक्तेस्तादृशा यत्क्रियते तदत्यल्पम् । दुरात्मन्निदानीमेवं नाम दीनता दर्शयसि तदानीं तदकार्षी ॥ ३४० ॥ न चैतचिन्तितमेतया नैव मृत्युदशादीनां याचमानं विमानयेत् । स (न) खल्वाकुलितैः प्राणैः परप्राणान् क्षणात् क्षिपेत् ।
द्यूत० - यदि न भक्त्या प्रसीदसि तदा यथा प्रसीदसि तथा करोमीति तद्भङ्गकारिपाषाणाय बहिर्निस्ससार । भट्टारिका क्षिप्र मेव द्वारं पिदधे । द्यूतकारो महतीं शिलामुत्पाद्य प्राप्तः पिहितकपाटं द्वारं प्रेक्ष्य, विलक्षः शिलया कपाटे आस्फोटयामास । तथापि तयोरनुद्घटितयोर्मन्दिरप्रदीपनाय प्रावृतत् । सर्वं सम्भाव्यते स्वर्भाणुस्वभावेऽस्मिन्निति भीतया तया सत्वरं द्वारमुद्घाट्य पूत्कृतम् — रे रे नष्टदुष्टचेष्ट ! मा मन्मन्दिरं दिदीपः । निष्कृपतया कृताऽहं त्वया किंकरीव किं करोमीदानीं, याहि पुस्तिकामेतामादाय दीनारपत्या ददीथाः (याः) । द्यूत० - यदि नैतावन्मूल्यं लप्स्ये तदा ते (न) दरास्ते च मेढकाः, क्व यास्यसि मयाऽऽरब्द्वेत्युक्त्वा पुस्तिकां च गृहीत्वा प्राप्तोऽयं विपणिपङ्क्तौ । पुस्तिकां च प्रदर्श्य मूल्यमतुल्यं जल्पन्नुपहस्यमानः प्राप्तः पुरन्दरपुत्रस्य सिद्धदत्तस्य हट्टे । तेनापि पुस्तिकां
कृतपूतनाद्यूतकार
प्रसङ्गः ।
॥ १४९ ॥