________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे ॥१४२॥
महेश्वरदत्तज्ञातम् ।
PERecene
खलु कष्ट, क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा, न वेत्ति येनाऽऽवृत्तो लोकः ॥५८ ॥ ईदृश नव्यविगोपककजलपङ्कप्रलेपसंपर्कात् । मुखमपि दर्शयितुमहं शक्नोमि न हन्मि तत्किं स्वम् ॥ ५९॥ आयें ! यामि प्रविशामि, साम्प्रतं प्रज्वलज्वलनराशौ । कथमन्यथा मम स्यात्, पातकतो मोक्ष ईदृक्षात् ॥ २६० ॥ आर्या वक्ति श्रावक !, धर्मश्रद्धाप्रधान ! तेऽनुचितः । स्ववधः पापकृते यजिनेन्द्रदीक्षां जिघृक्षस्व ॥ ६१ ॥ ततस्तद्वचनात्स प्रव्रज्य तीव्रतपश्चर्याचारुचरित्रचातुरीमाचर्य स्वर्गमगमत् । कुबेरसेनाऽपि प्रतिपन्नोपासकवतव्राता श्राविका जाता । कुबेरदत्तार्यिकाऽपि प्रवर्तिनीपार्श्वमासाद्य संयमसाम्राज्यमाराधयामास । 'एतामहो भुवि भवस्य वयस्य शोच्या, सम्यग् विचारय चिरं कुचरित्रचेष्टाम् । चित्तं द्विधा भवति चिन्तयतोऽपि यां मे, तज्जातिभिः किमिह कार्यमनार्यचयः ॥ ६२ ॥ प्रभवेण ततो जल्पितमुत्पादय तावदत्र पुत्रमहो तद्रहितस्य पितृणां प्रेत्य गतिर्नास्ति तृप्तिर्वा । 'गदति स जंबुनामा, न नाम सत्यं त्वयेदमप्युदितं । निजनिजकर्मायत्ता, भवति गतिः (का) क्वापि कस्यापि ॥ ६३ ॥ मिथ्याभिनिवेशोऽयं मिथ्याशास्त्रोपदेशजः पुंसां । द्विजभोजनात् पितृणां, तृप्तिः सम्पद्यते सद्यः ।। ६४ ॥ हविरग्निमुखे क्षिप्त, पिशितं विप्रानने तु तृप्त्यै स्यात् । क्रमशो देवपितृणां, व्यधिकरणमिदं कथं घटते ॥ ६५ ॥ अथ महेश्वरदत्तकथानकम्
Depersecreroecoecemenezoen
शृणु पुत्रेण पितृणां परित्रया तत्र मत्कथामेकां । निगमोऽत्र ताम्रलिप्त्यां, स महेश्वरदत्त इत्यासीत् ॥ ६६ ॥ तस्य समुद्रस्तातो, माता बहुलेति वित्तरक्षादौ । तत्परचित्तौ द्वावपि न धर्मवार्तामपि विधत्तः॥६७॥ सततार्त्तवर्त्तिचित्तो मृत्वा महिषस्तयोः समुद्रोऽभूत् । । मायाबहुला बहुलाऽपि, मृत्युमाप्ता शुनी सदने ॥ ६८ ॥ तदनु निरङ्कुशवृत्तिः, संजाता स्वैरिणी वधूरनयोः। परपुरुषपरीरंभैका, लोलुभा गङ्गिला नाम्नी ।। ६९ ॥ निशि रमयन्ती ज्ञाता, छन्ने प्रच्छन्नकामुकं पत्या । उपपतिरसिना तेनाऽर्द्धमारितो निस्सरन्विहितः ॥ २७० ।। कतिपयपदानि गत्वा, प्रहारपीडापराहतोऽपतत् । अनुतापतप्तचेताः, परासुरासीन्मनाक्सुमनाः ॥ ७१ ॥ तत्कालभुक्तकुलटागर्भेऽभवदात्मवीर्यसंयोगे( गात्) । अङ्गोद्भवो महेश्वरदत्तस्यातिप्रियोऽजनि सः ॥ ७२ ॥ क्रियमाणेऽथ कदाचन सांवत्स-16
॥१४२॥