________________
Deen
उपदेशमालाविशेषवृत्तौ| जम्बूचरित्रे ॥१४॥
कुबेरदत्तकुबेरदत्ताज्ञातम् ।
Correcroecommercreamera
कस्य विपाकः । तत्तावदुत्तारयामि पापान्धकूपकोटरात् कथंचिदेतमिति विचिन्त्य प्रवर्तिनीमनुज्ञाप्य प्राप्ता सा मथुरायाम् । तस्थावज्ञातचयर्या याचितकुबेरसेनापितस्वसमैकदेशे। कुबेरसेनाऽपि स्वबालकमार्यिकान्तिके निक्षिप्य स्वव्यापारपरायणा यावदास्ते तावत्तस्यास्तत्पावें विशिष्टविष्टरोपविष्टकुबेरदत्तस्य च प्रतिबोधाऽऽधानधिया बालकमुपलालयन्ती जजल्पेषा । त्वं बालक ! 'भ्राता भ्रातृव्यो
देवरः ४पुत्रः पितृव्यः पौत्रश्चासि मे । यस्य च पुत्रस्त्वमसि सोऽपि 'भ्राता पिता पुत्रो भर्ता श्वशुरः पितामहश्च मे । यस्याश्च गर्भात्प्रादुरभूद्भवान् साऽपि 'माता श्वश्रूः सपत्नी भ्रातृजाया पपितामही विधूश्च मे। कुबेरदत्तेनेदमाकर्ण्य साक्षेपमाचचक्षे, आयें ! किमसमञ्जसमुल्लपसि परस्परव्याहतव्याहारो हि नाईतदर्शने कस्यापि दृश्यते । आर्या व्याजहार-श्रावक ! मा मामेवमाक्षिपः । सर्व तथ्यं पथ्यं सूपपादं चास्मि वच्मि । नहि दृष्टेऽनुपपन्नं नाम | अवधिज्ञानेन हि ज्ञातोऽयमों मया तथाहि-१ भ्राताऽयं मे बालक-एकमातृकत्वात् । २ भ्रातृव्यो-भ्रातृपुत्रकत्वात् । ३ देवरो-भर्तुरेकमातृजातलघुभ्रातृत्वात् । ४ पुत्रोभर्तुः पुत्रत्वात् । ५ पितृव्यो-मातृभर्तुर्भ्रातृत्वात्। ६ पौत्रश्च-सापत्नपुत्रस्य पुत्रत्वात् । १ बालकपिताऽपि मे भ्राता-एकमातृजातत्वात् । २ पिता-भ्रातुः पितृत्वात् , मातुर्भर्तृत्वात् । ३ पुत्रः-सपल्या संजातत्वात् । ४ भर्ता-तेन परिणीतत्वात् । ५ श्वशुरःश्वश्रूभर्तृत्वात् । ६ पितामहश्च-पितामह्याः पतित्वात् । यस्याश्च गर्भादभूदयं बालकः सा मे–१ माता-जन्मनिमित्तत्वात् । २ श्वश्रूःभर्तुर्मातृत्वात् । ३ सपत्नी-भर्तुः कलत्रत्वात् । ४ भ्रातृजाया-भ्रोतुर्भार्यात्वात् । ५ पितामही-जनकमातृत्वात् । ६ वधूश्च-सापत्नपुत्रस्य भार्यात्वात् । सम्बन्धाष्टादशकसूचिके गाथे यथा-'भाय 'भत्तिज पित्तिव्वो, “महपोत्तो 'देवरो 'सुओ सि तुम। तुज्झ पिया य 'पियामह, २पइ उभाय "सुओ पससुर जणओ ॥ २५६ ॥ माया य तुज्झ बालय ! मह 'जणणी 'सासुया सवक्की य । वहु भाउज्जाय 'पियामही य एत्थेव जम्मम्मि ॥ ५७ ॥ कुबेरदत्तेन संजातसंसारवैराग्येण कुबेरसेना प्रतिबोधविधानाय प्रोक्तमायें ! विशेषतो ज्ञीप्साम्येनमर्थ ततो निबिडब्रीडाजाड्यवान् शुश्रूषते । आर्यिकाऽपि मुद्राद्वयं संवादयन्ती कुबेरसेनाजठरयुगलजन्मतः प्रभृति प्रत्यपीपदत् । कुबेरदत्तस्तदाकर्ण्य संजातसंवेगवैराग्यवेगश्चिन्तयामास । धिगज्ञानं मे येनेदृशमकार्य कार्य स्म । 'अज्ञानं
॥१४१॥