________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे
॥ १४० ॥
तेति दत्तनामाङ्के द्व मुद्रिके निर्माप्य दशरात्रे जाते जातरूपरूप्यरत्नचीनांशुकादिपूरितायां मंजूषायां निक्षिप्तं मुद्रिकायुग्मयुक्तं युगलकम् । प्रवाहिता सा जातायां यामिन्यां यमुनानिम्नगायां । भवितव्यतावशाच प्रवहन्ती प्रत्यूषे मञ्जूषा शौरिकपुरवास्तव्यश्रेष्टिद्वयेन शौचाऽऽचमनकृते प्राप्तेन प्रेक्षिता स्वीकृता च । उद्घाट्य दृष्टमेतद्वितयं द्वितयेन । कालिन्दीदेवतया दत्तमेतदस्माकमिति गृहीतः कुबेरदत्त एकेनान्या चान्येन । जातौ च तौ क्रमेण वर्धिष्णू । ततो नवीनयौव निकानिकामरामणीयकरञ्जितहृदयाभ्यां ताभ्यामिभ्याभ्यां सुसदृशरूपरेखाविशेषो विशेषफलवानस्त्विति कृतस्तयोरेव परिणयः । द्वितीयदिने दम्पतिभ्यां ताभ्यामारब्धायां सारिक्रीडायां सारिता कुबेरदत्तेन ग्रहणके नामाङ्का मुद्रिका । कुबेरदत्तायास्तामालोकयन्त्याः स्वमुद्रिकानिर्माणनाम्नोः संवादमुभयाकारसौसदृश्यं च विमृशन्त्याः संजज्ञे विकल्पः कदाचिन्मम सहोदरोऽयं स्यात् । न चैनं प्रति परिरम्भारम्भसंरम्भो मे मानसस्य न चास्यापि मां प्रति । तद्भवितव्यं विधिसंविधानेन केनाऽप्यत्र ॥ " पारयति यन्न कश्चित् कर्त्तुं न मनोऽपिष्ठेत्र जंघालम् । उपनयति तदपि दैवं, शुभशुभं वा किमाश्चर्यम् ॥ २५५ ॥ ततो विच्छिद्य सद्यो द्यूतक्रीडां मुद्रिकाद्वैतं कुबेरदत्तहस्ते वितीर्य गता सा मातुरन्तिके । शपथशतदाननियन्त्रितकृत्वा पृष्टा सा तया तवोदरजाता देवतादत्ता वा दुहिताऽहं स्यामिति । निवेदितो मात्रा यथावृत्तो वृत्तान्तस्तस्यै । तयापि प्रवेदितो विषण्णमनस्कया सर्वः कुबेरदत्ताय । ( ३००० A. ३६४८ B. D. ग्रं० ) तेनापि मुद्रिकाद्वयदर्शनोत्पन्नतथावित कण तथैवानुयुक्ता स्वमाता तमेवोदन्तमवादीत् । अनुचिताचाराभिशोचिः संचया (वा) चान्तचेताश्च स्वमातरपितरयोः संमुखमाख्यत्अनुचितमाचरितं युवाभ्यां यदविदितसन्तानतत्त्वयोरावयोर्विवाहो विहितः परं नाद्यापि परस्परपाणिस्पर्शातिरेकेण कोऽपि दोषः प्रादुरासीदिति विसृज्यतामेषा स्वपितृगृहे । गृहीताऽऽत्ममुद्रा, गता तत्र तेनैव निर्वेदेन रुदतोः पित्रोः प्रात्राजीत् । मुद्रिकां च तां गोपायितां स्वपार्श्व एव व्यधाषीत् । निशितासि तीव्राणि तपांसि तप्यमानायाश्च तस्या अवधिज्ञानमुदपादि । तदाऽऽभोगेन भावयती पश्यति कुबेरदत्तं व्यवहारगत्या मथुरापुरीप्राप्तं कुबेरसेनानाम्न्या स्वमात्रा सह संवसन्तं । तदुदरोपजातं चाङ्गजं तेनोत्संगीकृतम्। ततश्चिन्तितमनया - अहो अज्ञानविजृम्भितम् । अहो अविरतिविडम्बना । अहो अविवेकातिरेकः । अहो विषय किम्पाकपा
कुबेरदत्तकुबेरदत्ताज्ञातम् ।
॥ १४० ॥