________________
अप्पा जाणइ अप्पा, जहडिओ अप्पसक्खिओ धम्मो । अप्पा करेइ तं तह, जह अप्पसुहावओ होइ ॥ २३॥ उपदेशमाला
जं जं समयं जीवो आविसइ जेण जेण भावेण । सो तंमि तंमि समए, सुहासुहं बंधए कम्मं ॥ २४ ॥ विशेषवृत्तिःIN
धम्मो मएण हुँतो तो नवि सीउण्हावाय विज्झडिओ। संवच्छरमणसिओ, बाहुबलि तह किलिस्संतो ॥ २५॥
जनरञ्जनो वेषोऽपि रजोहरणादिरूपोऽप्रमाणः कर्मबन्धाभाव प्रति नियुक्तिक इत्यर्थः । कस्य ? असंयमस्थानेषु वर्तमानस्य पुंसः। KI दृष्टान्तेन समर्थयते, किं परिवर्तितवेषं-कृतान्यनेपथ्यं पुरुषं विषं खाद्यमानं न मारयति ?, मारयत्येव । एवं साधुवेषमपि पुमांसम- | N| संयमपदानि संसारमारेण मारयन्ति । न वेषो रक्षतीति भावः ॥२१॥ एवं तावत् कर्माभावमभीप्सता भावशुद्धिरेव विधेया, कि वेषेण ? | उच्यते-निश्चयनयादेवमेतत् वल्कलचीरिभरतादौ तथादर्शनात् व्यवहारनयात्तु वेषस्यापि कर्माभावहेतुत्वं भावशुद्ध्युपकारकत्वात् , तद्विकलो ह्यसावकिंचित्कर इति व्यवहियते । व्यवहारोऽपि च निश्चयनयवत्प्रमाणमेव । अनतिशयज्ञानिनामैद्युगीनानां तेनैव प्रवृत्तिदर्शनात् । तथा च-"जइ जिणमहं पवजह, तो मा ववहारनिच्छए मुयह । ववहारनउच्छेए, तित्थुच्छेओ जओऽवस्सं ॥शा" कथं भावशुद्ध्युपकारको वेष इत्याह-“धम्म” गाहा ॥ धर्म रक्षति वेषमूद्ग्रहणोत्तरकालं सत्पुरुषाणामकार्यप्रवृत्तेरदर्शनात् । कथंचित्प्रवर्तमानोऽप्यकार्ये गृहीतवेषः शङ्कते वेषेण हेतुभूतेन दीक्षितोऽहमिति मत्त्वा । दृष्टान्तमाह-यथा चौर्यपारदा_द्युत्पथेन पतन्तं गच्छन्तं पुरुषं राजा रक्षति । यत उक्तम्-" राजदण्डभयात् पापं, नाचरत्यधमो जनः । परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥१॥” जनपदो वा ग्रामिकलोकसमुदायो वा तथा वेषोऽपीत्यर्थः ॥ २२ ॥ निश्चयतस्तु-“ अप्पा” गाहा ।। आत्मा यथास्थितः शुभपरिणामोऽशुभपरिणामो वा तदात्मा जानाति न तु परः, परचेतोवृत्तीनां दुरन्वयत्वात् । यत आत्मसाक्षिको धर्मः, तस्मादामलब्धविवेको जीवस्तथा करोति यथात्मनः सुखावहमनुष्ठानं भवति, किं पररञ्जनयेति ॥ २३ ॥ भावस्य शुभाशुभकारणत्वे सति किं जातमित्याह-"जं जं" गाहा ॥ स्पष्टा । किन्तु यं यं समयं जीवः शुभेनाशुभेन वा भावेनास्कन्दतीति पूर्वार्द्धार्थः ॥२४॥
व्यवहारनिश्चयनय
परस्पर| सापेक्षता।
Pormercenera
POPapeecomezaemonetweenaeela