SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । धात्वर्थनिष्ठविशेष्यतानिरूपितप्रतासंबन्धेनान्वयबोधं प्रति विशेष्यतया विभक्तिजन्योपस्थितेर्हेतुत्वस्यावश्यकतया सादृश्यस्य धात्वर्थान्वयासंभवात्सादृश्यस्य गमनकतर्येवान्वयः । कर्तरि गजसादृश्यं च स्वगमनसदृशगमनकर्तृत्वम्-इत्यन्ये ॥ केचित्तु–एवं सति सादृश्यस्य विधेयतया प्रतीतिरनुभवसिद्धा न सिध्येत् । 'गज इव यः पुरुषः स गच्छति' 'पुरुषो यः स गज इव गच्छति' इत्यादिवाक्याभ्यां भिन्नविधेयकप्रतीतिजननात् । 'वनं गज इव गृहं देवदत्तो गच्छति' इत्यादौ वनादेरनन्वयापत्तेश्च । 'गजनिरूपितसादृश्यप्र मतान्तरोपन्यासमुखेन दूषयति-धात्वर्थति ॥ ततश्चैतादृशकार्यकारणभावबलेन धात्वर्थविशेष्यक इवार्थसादृश्यप्रकारको बोधो न खीकर्तुमर्हः सादृश्यस्य विभक्त्यर्थत्वाभावात् धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंबन्धेनान्वयबोधखीकारे व्यभिचारप्रसङ्गात् । अत्र प्रकारतासंबन्धेनान्वयबोधे विभक्तिजन्योपस्थितिर्हेतुरित्युक्तौ 'नीलो घटः' इत्यादौ व्यभिचारः, नीलस्य प्रकारतयान्वयबोधात्तस्य च विभक्त्यर्थत्वाभावात् । एवं 'घटः' इत्यादौ घटत्वस्य प्रकारतया बोधादुक्तदोषो द्रष्टव्यः । अतो धात्वर्थनिष्ठविशेष्यतानिरूपितेत्युक्तम् । तत्र तु घटादिरूपनामार्थनिष्ठविशेष्यतानिरूपितैव नीलादिप्रकारतेत्यदोषः । ननूक्तकार्यकारणभावो नाङ्गीकर्तव्य इत्यत आह-अवश्येति । घटो न पश्यतीत्यादौ घटान्वितस्याभावस्य विषयतासंबन्धेन धात्वर्थदर्शनान्वये घटाभावं पश्यतीतिवत् घटाभावविषयकदर्शनशाब्दबोधापत्तेस्तद्वारणाय यथोक्तकार्यकारणभावः क. लप्यते । तत्कल्पने चाभावस्य निपातार्थतया विभत्त्यर्थत्वाभावाद्धत्वभावादेव न तथा बोध इति भावः । गमनकर्तयैवेति । गजसदृशो गमनानुकूलकृतिमानित्यर्थः । न. न्वेवं धर्मान्तरेण तयोः सादृश्यं सिद्ध्येन तु गमनेनेत्यत आह-गजसादृश्यं चेत्यादि । स्वगमनेति । गजगमनेत्यर्थः । अन्ये इति । आख्यातवाददीधितिविवरणे रुद्रभट्टाचार्यादय इत्यर्थः ॥ अत्र रसगङ्गाधरोक्तदूषणमाह-केचित्त्विति.। भिन्नविधेयकेति । गज इव यः पुरुषः स गच्छतीयत्र गजसादृश्यविशिष्टपुरुषानुवादेन गमनस्य विधेयत्वम् , पुरुषो यः स गज इव गच्छतीत्यत्र तु शुद्धपुरुषानुवादेन गजगमनस. दृशगमनस्य विधेयत्वं प्रतीयत इत्यर्थः । एवं च विधेयतयेत्यस्य विधेयकोटिप्रविष्टतयेत्यर्थः । अनन्वयेति । गजसदृशो देवदत्तो गमनानुकूलकृतिमानित्यत्र वनस्यान्वयाबोधात् । एवं बिम्बत्वापन्नकारकमात्रस्याप्यनन्वयो बोध्य इति भावः ॥ ननु धात्वर्थनिष्ठेत्यादिकार्यकारणभावस्य क्लृप्तत्वात्कथं दृश्यस्य धात्वर्थान्वयः अतः प्रतीतिमात्रम
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy