________________
काव्यमाला।
योजकगमनाश्रयः' इत्येव बोधः । उक्तकार्यकारणभावश्च नाङ्गीकार्यः । न च-'घटो न पश्यति' इत्यत्र 'घटाभावं पश्यति' इत्यादिबोधवारणाय तदावश्यकम्-इति वाच्यम् , धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसगेंणान्वयबोधं प्रति नञ्पदजन्योपस्थितिमात्रस्य प्रतिबन्धकत्वकल्पनात्इत्याहुः॥
किंचित्करमित्यत आह-उक्तेति । ननु यथोक्तकार्यकारणभावानङ्गीकारे घटो न पश्यतीत्यत्र घटस्य प्रतियोगितया नअर्थाभावान्वये तस्य च विषयतया धात्वर्थदर्शनान्वये घटाभावं पश्यतीति बोधः स्यादित्याशङ्कते-न चेति ॥ धात्वर्थेति ॥ तथा च घटो न पश्यतीत्यत्राभावस्य नजन्योपस्थितिविषयत्वेन तत्र धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंबन्धेन नान्वयबोधः । न चैवं पाको न याग इत्यत्र नजर्थान्योन्याभावस्य पाकादावन्वयो न स्यात् । पाकस्य धात्वर्थतया तनिष्ठविशेष्यतानिरूपितप्रकारतासंबन्धेनान्योन्यभावस्यान्वयवोधायोगादिति वाच्यम् । नामार्थातिरिक्तत्वेन धात्वर्थस्य विशेषणात् , उक्तस्थले च धात्वर्थत्वेऽपि पाकादेर्नामार्थत्वात् , धात्वर्थनिठविशेष्यतानिरूपितप्रकारतासंबन्धेनान्वयबोधं प्रति विभक्तिजन्योपस्थितेहेतुत्वं कल्पयतापरेणापि धात्वर्थस्य नामार्थत्वभिन्नत्वेनावश्यं विशेष्यत्वात् , अन्यथा 'पाको न यागः' इत्यादावपि उक्तकार्यतावच्छेदकावच्छिन्नस्य नजथे सत्त्वेन विभक्तिजन्योपस्थितेश्चाभावे न व्यभिचारापत्तेरिति तन्मतशेषः ॥ ___ अत्रेदं बोध्यम्-एतादृशप्रतिबध्यप्रतिबन्धकभावकल्पने 'न कलशं भक्षयेत्' इत्यत्र विध्यर्थस्य बलवदनिष्ठाननुबन्धित्वस्य प्रतियोगित्वेन नअर्थाभावान्वये तस्य भक्षणे धा. त्वर्थे विशेषणताविशेषसंबन्धेनान्वयो न स्यात्, अभावस्य नञ्पदजन्योपस्थितिविषयत्वेन धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंबन्धेनान्वयबोधासंभवात् । न च त्वदु. क्तरीत्याप्येतदनुपपन्नम् , अभावस्य विभक्त्यर्थत्वाभावादिति वाच्यम् । तत्र विशिष्य धा. तुजन्योपस्थितित्वेन कारणत्वान्तरकल्पनात् । न च ममाप्येवमेव निस्तार इति वाच्यम् । प्रतिबन्धकसत्वे हेत्वन्तरेणापि कार्यानुदयात् । वनं गज इव गृहं देवदत्तो गच्छतीत्यत्र च वनगृहयोरभेदान्वयः, देवदत्ते गजसादृश्यं च वनसंयोगानुकूलगमनसदृशगृहसंयोगानुकूलगमनकर्तृत्वम् । तथा चोक्तधर्मेण गजसदृशः पुरुषो वनाभिन्नगृहकर्मकगमनानुकूलकृतिमानित्यादिः शाब्दबोधः । एवं च धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतयान्वयबोधे विशेष्यतासंबन्धेन विभक्तिजन्योपस्थितेहेतुत्वेऽवश्यं कल्पनीयेऽरविन्दमिव भातीत्यादावपि प्रकारतया सादृश्यस्य ज्ञानान्वयोऽपि तन्मते प्रथममुपन्यस्तो निरस्तो वेदितव्यः, इत्याद्यखरसमे तन्मते सूचयन्नेव पूर्वमतमेव समर्थयमान आह