________________
अलंकारकौस्तुभः । वस्तुतस्तु-'गजप्रतियोगिकसादृश्यवान्पुरुषो गमनानुकूलकृतिमान्' इत्येव धीः । सादृश्यस्य च धर्मान्तरनिमित्तकत्वे तात्पर्यज्ञाने उक्तधिय एवावश्यकत्वात् ॥ यत्रापि गमनप्रयोज्यमेव सादृश्यं विवक्षितम्, तत्रापि सादृश्ये गमनप्रयोज्यत्वज्ञानं मानसमेव । अतएव धर्मान्तरप्रयोज्यसादृश्यविवक्षायां 'पुरुषगंमनं न गजगमनसदृशम्' इति बाधज्ञानसत्त्वेऽपि 'गजसदृशः पुरुषो गमनानुकूलकृतिमान्' इति धीर्भवत्येव ॥
अयं चात्र विशेषः-धर्मान्तरप्रयोज्यसादृश्यविवक्षायां 'गज इव गच्छति' इति धर्मलुप्ता । गमनप्रयोज्यसादृश्यविवक्षायां तु न तथा—इति ॥ नच-गमनस्य साधारणधर्मताया मानसगम्यत्वात्त्वन्मते गमनप्रयोज्यसादृश्यविवक्षायामपि धर्मलुप्तत्वापत्तिः-इति वाच्यम् , साधारणधर्मस्य शाब्दत्वादेव तदभावात् । नहि 'शाब्दबोधगम्य एव धर्मस्य साधारणत्वे न धर्मलुप्तत्वापत्तिः' इति नियमे प्रमाणमस्ति । बिम्बप्रतिबिम्बभावादौ शाब्दबोधोत्तरमुभयोधर्मयोरभेदस्य मानसविषयतया तत्रापि तदभावापत्तेरसंभवापत्तेश्चेति न किंचिदेतत् ॥
एवं 'पिक इव रौति' 'चक्रन्द विग्रा कुररीव भूयः' इत्यादावपि पिवस्तुत इति । धर्मान्तरेति । स्थूलत्ववत्वादिरूपेत्यर्थः ॥ आवश्यकत्वादिति । स्थूलत्वादिप्रयुक्तसाम्यविवक्षायां गजगमनसदृशगमनेत्यादिबोधानुपपत्तेरित्यर्थः । तथा च-धर्मान्तरप्रयुक्तसाम्यविवक्षायां तस्य कर्बन्वयखीकारस्यावश्यकतया त्वदुक्तरीत्या धात्वर्थ एव सादृश्यान्वयाभ्युपगमो निर्बीज इति भावः । नन्वेवमपि गमनप्रयोज्यसादृश्यविवक्षायां तस्य धात्वर्थान्वयोऽपि स्वीकार्य इत्यत आह-यत्रापीति । मानसमेवेति । उक्तविधया धात्वर्थे सादृश्यान्वयासंभवादिति भावः । ननु धर्मान्तरेण सादृश्यविवक्षायां गज इव गच्छतीति प्रयोगो न भवत्येवेत्यत आह-अत एवेति ॥ धर्मलुप्तेति । तत्प्रयोजकस्थूलत्वादिधर्मवाचकपदाभावादित्यर्थः ॥ न तथेति । गमनार्थकगमिरूपधातुप्रयोगसत्वेन न धर्मलुप्तेत्यर्थः ॥ असंभवेति । चन्द्र इव रमणीयमित्यादौ रमणीयत्वादिबोधेऽपि तत्साधारणतायाः शाब्दबोधाविषयत्वात्। तस्याः पदार्थवाक्यार्थत्वाभावादित्यर्थः ॥ उक्तरीतिमन्यत्राप्यतिदिशति-एवं पिक इवेति । अत्रं रुतत्वादिधर्मेणैव सादृश्यं चमत्कारजनकतया कविप्रसिद्धम्, 'गज इव' इत्यादौ तूपात्तगमनादिव्यतिरिक्तधर्मेणापि तथेत्यत्र विशेषः ॥ चक्रन्देति । रघुवंशे ... १. 'गजगमनसदृशः क,