________________
९४
काव्यमाला ।
करुतसदृशरुतानुकूलव्यापारवान्' इत्यादिरेव बोधः । 'पिकप्रतियोगिकसादृश्यवान् रौति' इत्यादिरेव बोधस्य स्वीकारात् । तदुत्तरं सादृश्यस्य रुतनिमित्तकत्वज्ञानं मानसमेवेति सर्वनिर्वाहात् ॥ ननु — एतदनुपपन्नम् । तथाहि — यत्र 'गजसादृश्याभावव्याप्यवद्गमनम्' इत्याद्यपेक्षा बुद्ध्यात्मकः परामर्शः 'गज इव गच्छति' इति शाब्दबोधसामग्री च, तत्र ' शाब्दबोधो जायताम् ।' इतीच्छासत्त्वे इच्छाघटितत्वेन शाब्दसामग्र्या बलवत्वात् 'गजसदृशो गच्छति' इति बोधः । तदुत्तरक्षणे 'गजगमनसदृशं न गमनम्' इत्यनुमितेरेवोत्पत्त्या 'गजगमनसदृशं गमनम्' इति मानसं न संभवति । एवं तद्रूपबाधज्ञानसत्त्वात्तदुत्तरक्षणेऽपि न तादृशमानससंभवः । तथा च
सीतां वाल्मीकितपोवने परित्यज्य लक्ष्मणे गते इयमुक्तिः ॥ एवं सादृश्यस्य गमनप्रयोज्यत्वज्ञानं न निर्वहेत् । प्रतीयते च तदवश्यम् । अतो गमनसादृश्यं शाब्दबोधविषय एवेति स्वीकार्यम्, तच्च न, सादृश्यस्य धात्वर्थान्वयं विनेत्यर्थात् तथा सेत्स्यतीत्यभिप्रायवानाशङ्कते - नन्वेतदिति । गजसादृश्येत्यत्र गजपदं गमनपरम् । तथा च गजगमनसादृश्याभावव्याप्यवद्गमनमिति परामर्शाकारः । 'गजगमन' इत्यादिपाठे तु स्पष्टोऽर्थः । अत्र चोक्त परामर्शः शाब्दसामग्री चेत्येकः क्षणः, तदुत्तरं शाब्दं जायतामितीच्छाधिकरणं द्वितीयः, शाब्दबोधोत्पत्त्यधिकरणं तृतीयः । तथा च - ज्ञानस्य क्षणद्वयावस्थायि तया शाब्दोत्पत्तिक्षणे परामर्शनाशात्तदुत्तरं गजगमनसादृश्याभाववद्गमनमित्यनुमितिर्न स्यात् तत्पूर्वक्षणे परामर्शरूपकारणाभावात् । अत उक्तं अपेक्षाबुध्यात्मक इति परामर्शविशेषणं तथा चापेक्षात्मकज्ञानस्य क्षणत्रयावस्थायितया शाब्दबोधोत्पत्तिक्षणे विनश्यदवस्थः परामर्शोऽस्त्येवेति तदुत्तरं उक्तानुमित्युपपत्तिः अनुमितिक्षणे परामर्शाभावेऽपि तदव्यवहितपूर्वक्षणे तत्सत्वादिति भावः । ननु भिन्नविषये अनुमितिसामग्र्या ज्ञानमात्रसामग्रीतो बलवत्वात्कथं तत्र 'गज इव गच्छति' इति शाब्दबोधो भविष्यतीत्यत आहशाब्दं जायतामिति । इच्छाघटितसामग्र्या बलवत्वकल्पनात्स्वभावतः शाब्दसामध्या दुर्बलत्वेऽपि इच्छाघटितत्वेन तस्या बलवत्वमिति इच्छावच्छाब्दबोध उपपद्यत इति भावः । बोध इति । 'गजसदृशो गमनानुकूलकृतिमान्' इति त्वदभिमतः सादृश्यप्रकारककर्तृविशेष्यक इत्यर्थः । मानसं नेति । मानससामग्र्याः सर्वतो दुर्बलत्वकल्पनादित्यर्थः । ननु तादृशानुमित्यनन्तरं शाब्दबोधात्तृतीयक्षण एव 'गजगमनसदृशं गमनम्' इति मानसं भविष्यतीत्यत आह - एवं तद्रूपेति । गजगमनसादृश्याभाववद्गमनमित्यनुमितिरूपेत्यर्थः । तथा चानुमितिजननक्षणे विरोधिसामग्रीविधयानुमितिसाम