________________
अलंकारकौस्तुभः ।
९५ सादृश्ये गमनप्रयोज्यत्वज्ञानं सर्वानुभवसिद्धं न निर्वहेत् । मम तु गमने गजगमनसादृश्यस्य शाब्दबोधविषयतया शाब्दबोधकाल एव तद्बोधावश्यकत्वान्तान्नानुपपत्तिरिति चेत् । उच्यते-तत्रापि शाब्दबोधाच्चतुर्थक्षण एव सादृश्ये गमनप्रयोज्यत्वज्ञानाभ्युपगमे क्षतिविरहात् । किंच ‘गज इव गच्छति' इत्येतद्वाक्यजन्यशाब्दबोधात् 'पुरुषो गजसदृशो न वा' इति संशयनिवृत्तिरनुभवसिद्धा, ‘गजसदृशो न' इति ज्ञाने सत्येतच्छाब्दबोधानुदयश्च । एतच्छाब्दबोधे सति ‘गजसदृशो न' इति बुद्धयनुत्पत्तिश्चेति निर्विवादम् । त्वन्मते च गमने गजगमनसादृश्यबोधेऽपि पुरुष गजसादृश्यस्यैतदविषयत्वात्सर्वमिदं दुर्घटम् । मम तु पुरुषे गजसादृश्यस्यैतद्विषयतया नानुपपत्तिः । न च-धर्मसादृश्येन धर्मिसादृश्यसिद्धया क्षणविलम्बकल्पनाददोषः-इति वाच्यम् । 'गजसदृशो न' इति बाधज्ञानसत्त्वे एतजन्यशाब्दबोधापत्तेस्तथाप्यवारणात् । न च त्वन्मतेऽपि 'गमनं न गजगमनग्र्या प्रतिबन्धान तथाविधमानसं भवितुमर्हति, तदुत्तरक्षणेऽप्यनुमित्यैव विरोधज्ञान विधया प्रतिबन्धान तत्संभव इति भावः । ननु तादृशस्थले गमने गजगमनसादृश्यं मा प्रतीयतामित्यत आह -सर्वानुभावेति । 'गज इव गच्छति' इत्येतद्वाक्यार्थबोधानन्तरं गमने गजगमनसादृश्यग्रह नियमादित्यर्थः ॥ मम त्विति । तत्र 'शाब्दं जायताम्' इतीच्छावशाद् ‘गज इव गच्छति' इत्येतद्वाक्यात् शाब्दबोध उत्पद्यमाने तस्य गजगमनसदृशगमनानुकूलकृतिमानित्याकारकत्वस्य मया खीकारात्, गमने गजगमनसादृश्यग्रहसिद्धेः, त्वया तु शाब्दबोधस्य 'गजसदृशो गमनानुकूलकृतिमान्' इत्याकारकत्वस्याभ्युपगमादिच्छाबलाच्छाब्दे जातेऽपिगमने गजगमनसादृश्यस्य तदविषयत्वान तत्प्रतीतिनिर्वाह इति भावः । समाधिसौकर्यादाहउच्यत इति । बहुक्षणविलम्बकल्पनप्रयुक्तापरितोषादाह-किंचेति। दुर्घटमिति। गमने गजगमनसादृश्यग्रहेऽपि पुरुषे शाब्दबोधस्य गजसादृश्यविषयकत्वविरहात् गजसादृश्याभावप्रकारकसंशयं प्रत्यविरोधित्वात् , 'गजसदृशो न पुरुषः' इति बाधज्ञानप्रतिबध्यत्वानुपपत्तेः, तादृशज्ञानं प्रति प्रतिबन्धकत्वस्याप्यसंभवात् , ग्राह्याभावानवगाहनात् । अदोष इति । संशयनिवृत्त्यनुपपत्यापि रूपदोषाभाव इत्यर्थः । शाब्दबोधोत्तरभाविना पुरुषविशेष्यकगजसादृश्यप्रकारज्ञानेन तन्निवृत्त्यादिनिर्वाहात् । तथापीति । 'गजसदृशो न पुरुषः' इति ज्ञानस्य 'गजगमनरसदृशगमानानुकूलकृतिमान्' इत्येतादृशबोधाविरोधित्वात्, विषयभेदात् । एवं च संशयनिवृत्त्यादिरूपकार्यस्य शाब्दोत्तरज्ञानेन क्षणविलम्ब
१. 'विरोधिसामग्रीविधयानुमितिसामघ्या प्रति' ख.