________________
९६
काव्यमाला ।
सदृशम्' इति ज्ञाने सत्यपि उक्तशाब्दबोधापत्तिस्तुल्या - इति वाच्यम् । मम शाब्दबोधात्पूर्वं गजसदृश इति योग्यताज्ञानसत्ताया आवश्यकत्वात्, तत्सत्त्वे च तद्गमनसादृश्यबोधस्यापि सामग्रीसत्त्वेनावश्यकतया 'गजगमनसदृशम्' इति बोधस्य पूर्वमनियमात् तद्बोधेऽपि बाधकाभावात् । 'न गजगमनसदृशम्' इति ज्ञाने सति च गजसादृश्यज्ञानरूपयोग्यताज्ञानाभावादेव तदनुत्पत्तेः । न च ममापि 'गजगमनसदृशम्' इति योग्यताज्ञाने
कल्पयित्वा कथंचित्परिहारसंभवेऽपि 'गजसदृशो न' इति ज्ञानसत्त्वे 'गज इव गच्छति' इत्येतद्वाक्यजन्यशाब्दबोधानुत्पत्त्यनुभवो न समाधातुं शक्यः । न च -- अत्रापि तादृशज्ञानोत्तरम् 'एतद्गमनं न गजगमनसदृशम् इति ज्ञानेनैवोक्तशाब्दबोध प्रतिबन्धः संभवति' इति वाच्यम् । गजसदृशो नेति ज्ञानोत्तरमेव तदापत्तेरनिवारणात् । न च तादृशबाधधीसत्त्वे 'गज इव गच्छति' इत्येतद्वाक्यार्थबोधप्रतिबन्धोऽसिद्ध एवेति वाच्यम् । अनुभवापलापे उपेक्षणीयतापत्तेः । वक्ष्यमाणरीत्या मया त्वदभिमतबाधधीकालेऽपि शाब्दानुत्पत्त्यनुभवस्य रक्षणात् । तदर्थमेव तां शङ्कामवतारयति - न चेति । पुरुषगमनविशेष्यकगजसादृश्याभावप्रकारकज्ञानस्य पुरुषविशेष्य कगजसादृश्यप्रकारकत्वदभिमतबोधे प्रतिकूलत्वाभावाद्विषयभेदसाम्यादित्यर्थः । सामग्रीति । गजसदृश इति ज्ञानस्य एतद्गमनं गजगमनसदृशमिति ज्ञानमात्रेणासंभवात् । धर्मसादृश्यं विना धर्मसाह - श्यानुपपत्तेरित्यर्थः । एतच्च नहीत्यादिना स्फुटं पुरस्तात् । न च धर्मान्तरप्रयुक्तसाम्यविवक्षायां गमनसादृश्यज्ञानं विनापि धर्मान्तरसादृश्येन गजसदृश इति ज्ञानं संभवत्येवेति वाच्यम् । तदा त्वदुक्तबाधधीसत्त्वेऽपि 'गजसदृशो गच्छति' इत्येतद्वाक्यार्थबोध इष्टापत्तेः । यदा तु पूर्व ' गमनं न गजगमनसदृशम्' इति बाधबुद्धिरस्ति, तदा 'गज - सदृश:' इति योग्यज्ञानानुत्पत्त्या तदभावप्रयुक्त एव 'गज इव गच्छति' इत्येतद्वाक्यार्थबोधाभावो न तु बाधबुद्धिप्रतिबन्धकताप्रयुक्त इति न दोषः । एवं च सति मन्मते त्वदुक्तबाधज्ञानस्य जनकज्ञानविघटकतया 'न गजसदृशम्' इति ज्ञानस्य च ग्रायाभावावगाहितया 'गज इव गच्छति' इत्येतद्वाक्यार्थबोधे प्रतिबन्धकत्वमुपपद्यत इति, बाधद्वयकालेऽप्युक्तशाब्दबोधानुत्पत्त्यनुभवसमर्थनम् । त्वन्मते तु शाब्दबोधस्य 'गजगमन सदृशगमने त्यादिरूपतया तत्र 'गजगमनसदृशं न गमनम्' इति बाधज्ञानस्य प्रतिबन्धकत्वसंभवेऽपि 'गजसदृशो न' इत्यस्मदुक्तबाधज्ञानस्य प्रतिबन्धकत्वासंभवादन्यतरानुभवविरोध:' इति फलितार्थः । अत एव यथा त्वन्मते धर्मिसादृश्यानुपपत्त्या धर्मसादृश्यानुपपत्त्या धर्मिसादृश्यभाननियम इति उभयानुभवक्षार्थतया ' शङ्कते - न चेति । एवं च गजगमनसदृशगमने त्यादिशाब्दबोधात् । पूर्व गजगमनसदृशं गमनमिति योग्य
१. 'रक्षार्थमा ' क.