________________
अलंकारकौस्तुभः ।
ग़जसादृश्यज्ञानस्यापि सत्त्वेनोक्तरीत्यैव नानुपपत्तिः — इति वाच्यम् । धर्मसादृश्ये धर्मिसादृश्यनियमाभावात् । न हि धर्मिसादृश्यं विना धर्मसाह - मनुपपन्नम्, अपि तु धर्मसादृश्यं विना धर्मिसादृश्यमेव, उपपादकस्योपपाद्यं विनानुपपत्त्यभावात् । अन्यथोपपाद्योपपादकाभावव्याघातापत्तेः । तथा च गजसादृश्ये तद्गमनसादृश्यं विनानुपपन्नमिति तस्य तदाक्षेपकत्वमुचितम्, न तु गमनसादृश्यस्य गजसादृश्याक्षेपकत्वम् । अतश्च गजगमनसादृश्यस्यैव मानसत्वकल्पनमुचितमिति ॥ यदि तु गमनसादृश्याभिप्रायेणैव 'गज इव गच्छति' इत्यादि प्रयोग इति शपथः क्रियते, तर्हि प्रतियोगित्वातिरिक्तसंबन्धावच्छिन्नप्रकारतासंसर्गेण सादृश्याचयबोधं प्रति
ताज्ञानस्यावश्यं सत्त्वात्, तत्सत्त्वे च ' पुरुषो गजसदृशः' इत्यस्यापि ज्ञानस्योक्तरीत्या सत्त्वात्पूर्वं 'पुरुषो न गजसदृशः' इति बाधधीसत्त्वे च धर्मिसादृश्याभावे धर्मसादृश्यस्याप्यभावेन 'गजगमनसदृशं गमनम्' इति ज्ञानासंभवात्त्वदभिमतबाधज्ञानस्य योग्यताज्ञानविघटकतया गजगमनसदृशं न गमनमित्यस्मदभिमतबाधज्ञानस्य च ग्राह्याभावावगाहनविधया 'गज इव गच्छति' इत्येतद्वाक्यार्थबोधं प्रति एकस्य जनकज्ञानविघटकतया, एकस्य च विरोधिविषयकतयेति बाधद्वयस्यापि प्रतिबन्धकत्वसंभवादुभयानुभवसमर्थनं सुघटमिति भावः । एतद्विशदयति — धर्मेति । नियमाभावादिति । मृगनायिकयोः साम्याभावेऽपि तन्नेत्रसाम्याङ्गीकारात् । ननु धर्मसादृश्यं विना धर्मिसादृश्यवत् धर्मिसादृश्यं विना धर्मसादृश्यमप्यनुपपन्नमेवेत्याशङ्कामपार्क तुमाह-न हीति । व्याघातेति । उपपत्तिव्यतिरेकप्रयोजकव्यतिरेकप्रतियोगी ह्युपपादकः, तद्व्यतिरेकप्रयोज्यव्यतिरेकप्रतियोगी चोपपाद्यः, तदुक्तं न्यायकुसुमाञ्जलावाचार्य चरणै: - ' अनियम्यस्य नायुक्तिर्ना नियन्तोपपादक: ।' इति परस्परस्य परस्परोपपाद्यत्वे चैतदनुपपन्नम् । नहि पीनत्वेन रात्रिभोज - नमिव रात्रिभोजनेन पीनत्वमपि कल्पत इति भावः । ततश्च 'गजसदृशो न' इति ज्ञानस्य जनकज्ञानविघटकत्वविधया गमनसदृशगमनेत्यादिबोधं प्रति प्रतिबन्धकत्वं न संभवतीति त्वन्मतेऽन्यतरानुभवविरोधः । मयानुभवद्वयस्यैवोक्तविधया समर्थितत्वादिति फलितार्थः॥ एवं 'गज इव गच्छति' इत्येतद्वाक्याद्गजसादृश्यगजगमनसादृश्योभयप्रतीत्युपपादनानु• रोधादपि सादृश्यस्य कर्तर्येवान्वयो युक्त इत्याह- अत इति । 'गजसदृशो गच्छति' इति शाब्दबोधाभ्युपगमे गजसादृश्यशाब्दे गजगमनसादृश्यस्य च तदाक्षेपेणोपपत्त्या
१. 'बोधत्वावच्छिन्नं' ख.
१. ' दूषयति' क.
१३