________________
९८
काव्यमाला ।
तदनुयोग्युपस्थापकमदजन्योपस्थितित्वेन हेतुत्वमिति कार्यकारणभावे पदं शब्दमानं बोध्यम् । अतो धातोरपि संग्रहः । एवं च गमनस्य सादृश्याश्रयतया धात्वर्थेऽपि तत्र सादृश्यान्वयः । तथापि 'अरविन्दमिव भाति' इत्यादौ ज्ञाने सादृश्यान्वयोऽनुचित एवेति दिक् ।
प्रतीतिद्वयसमर्थनम् । त्वन्मते तु गजगमनेत्यादिशाब्दस्वीकारात् गजसादृश्यप्रतीतिसमर्थनं न संभवतीति भावः ॥ ननु माभूदाक्षेपेण गजसादृश्यसिद्धिः, मानसादेव तद्हसंभवात् । सत्यम्, तथापि नियता प्रतीतिर्न स्यादित्यत्र तात्पर्यम् ॥ शब्दमात्रमिति। तथा च, पूर्व पदेति नामैवानुमतमित्यर्थः ॥ अनुचित एवेति । उक्तस्थले ज्ञानस्योपमेयत्वाभावादिति भावः । इदं चाभ्युपेयोक्तम् । वस्तुतः पूर्वोक्तकार्यकारणाभावानुरोधेन सादृश्यस्य धात्वर्थान्वयोऽनुचित एवेति तात्पर्यम् ॥ ननु गजपदस्य गजगमनलक्षणया 'गजगमनसदृशगमनानुकूलकृतिमान्' इति बोधवादिनामस्तु नामेदं दूषणम् । गजसादृश्यप्रयोजकगमनेत्यादिबोधवादिनां सादृश्यप्रयोजकत्वसंबन्धेन गमनान्वयमूरीकुर्वतां रसगङ्गाधरकृतां किं दूषणमभिहितं तेषां गजसादृश्यबोधस्य निर्वाहादिति चेत् । उच्यते-एकं तावदुक्तमेव धात्वर्थे सादृश्यस्यान्वयानुपपत्तिरूपम् । परं च गजसादृश्यगजगमनान्यतरशाब्दबोधस्यानुपपत्तिरूपं तत् । तन्मते गजसादृश्यप्रयोजकत्वस्यैव शाब्दबोधविषयत्वात् । अन्यदपि पूर्वोक्तसंशयनिवृत्त्यनुपपत्त्यादिकमत्राप्यवधेयम् । नयुक्तवाक्यार्थबोधाद् ‘गजसदृशो न वा' इति संशयनिवृत्तिः संभवति, गजसादृश्यस्य त्वद्रीत्या पुरुषविशेषणत्वानवमात् । 'गजसदृशेन' इति बाधज्ञानस्य एतद्वाक्यार्थबोधप्रतिबन्धकत्वं च न स्यात् । एतद्राह्याविरोधिविषयकत्वविरहात्, एवं उक्तशाब्दबोधात् गजसदृशो नेति बुद्धिं प्रति बाधोऽपि न स्यात् इति स्पष्टमेव ॥ किंच 'मृगो न भीमः कुचरो गिरिष्ठाः परावत आजगन्थापरस्याः । मुकं संशाय पविमिन्द्रतिग्मं वि शत्रून् ताळि विमृधो नुदख ॥' इति वाजसनेयके मन्त्रः पठ्यते । अत्र सिंहेन इन्द्र उपमीयते, नशब्दस्य वेदे उपपदवदुपसर्गार्थकत्वात् 'नेति प्रतिषेधार्थीयो भाषायामुभयमन्वध्यायम्' इति निरुक्तकृताभिधानात् । अन्वध्यायं वेदे तु उभयं निषेधार्थकत्वं सादृश्यार्थकत्वं चेत्यर्थः । कुचरः पृथिवीसंचरणात् । यद्वा क्वायं न चरतीति कुचरः देवतायाः प्रभावातिशयेन सर्वत्र मानत्वात् । सिंहस्यापि स्ववीर्याहंकारेण तथात्वात् । गिरौ पर्वते तिष्ठतीति गिरिष्ठः । परावत इति दूरनाम छान्दसम् । आजगन्थ आगच्छसि । मृकं प्रसरणशीलम् । तिग्मं तीक्ष्णम् । पविं वज्रम् । संशाय सम्यक् निशातीकृत्य शत्रून् विताळि मारय । वीत्युपसर्गस्य ताळीति क्रिययान्वयः । 'व्यवहितश्च' इति छान्दससूत्रेण तथाभ्यनुज्ञानात् । एवं मृगो विनुदखेत्यत्रापि । अत्र तावन्निरुतेर्भगवता महर्षिणा यास्केन वेदभाष्यकारादिभिश्चाभियुक्तैर्मीमादिविशेषणानां इन्द्र