________________
काव्यमाला।
_____ 'गज इव गच्छति' 'पिक इव रौति' इत्यादावपि गजपदस्य तद्गमने लक्षणा, तस्य प्रतियोगित्वेन सादृश्येऽन्वयः, तस्यानुयोगित्वेन धात्वर्थे गमने । तथा च 'गजगमनसदृशगमनानुकूलकृतिमान्' इत्यादिर्बोधःइति केचित् ॥ लक्षणाभ्युपगमे प्रकारकेति संसर्गोल्लेखः, विशेषणं वा । आये प्रकारत्वसंबन्धेन सादृश्यप्रकारकज्ञानविशेष्यकस्य, द्वितीये च तादात्म्यसंबन्धेन सादृश्यप्रकाशकज्ञानविशेष्य. कस्य शाब्दबोधस्य पूर्ववदेवोदयात् । द्वितीये तावदरविन्दमिव भातीत्येतद्वाक्यजन्यात्सादृश्यप्रकारत्वसंसर्गकज्ञानविशेष्यत्वावगाहिनः शाब्दबोधाद्वैषम्यं स्पष्टमेव । आये तु विषयसाम्यरक्षायामपि तुल्यपदस्य तात्पर्यग्राहकताभ्युपगमे तद्योगेऽरविन्दादिपदे तृतीयानुपपत्तिः । 'तुल्यार्थैः' इति सूत्रेण तदर्थकपदयोग एव तद्विधानात् । यदि तु प्रथमं तुल्यपदस्य स्वार्थविवक्षया तद्योगे तृतीयां विधाय पश्चादेव तस्य तात्पर्यग्राहकताकल्पनम् , अत एव 'गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः' इति न्यायात् 'गौर्वाहीक:' इत्यादौ गोशब्दस्य गौणत्वात्कथं तत्र वृद्ध्यादिकार्यमित्याशङ्कय मुख्य एव खार्थे गोशब्दस्य वृद्ध्यात्वे, ततः पश्चादेव गौणत्वम् । न चान्तरङ्गत्वेन प्रवृत्तः पदसंस्कारो बहिरङ्गगौणत्वप्रतीतावपि निवर्तित इति समादधिरे शाब्दिकाः, एवमिहापीति न तृती. यानुपपत्तिरिति विभाव्यते । तदापि सादृश्यस्य धात्वर्थत्वात्तत्र निरूपितत्वसंबन्धेनारविन्दादिपदार्थान्वयानुपपत्तिः । धात्वर्थनामार्थयोः साक्षाद्भेदान्वयाभावात् । अर्थनिरूपितत्वं तृतीयाथै कल्पयित्वा तद्वारकोऽरविन्दादे: सादृश्यरूपधात्वर्थान्वयः कल्प्यते। एवमपि एकदेशान्वयो दुर्वार एव । यदि तु सादृश्य एव लक्षणा, ज्ञाने तु शक्तिरेव, अतोऽनैकदेशत्वं सादृश्यस्येत्युच्यते, तर्हि सादृश्यस्य मुख्यपदार्थत्वादुपमायाः श्रौतत्वापत्तिः । न चेष्टापत्तिः, त्वयापि तदनभ्युपगमात् । अथ सादृश्ये लक्षणायामपि न श्रौतत्वं तत्र शक्तावेव श्रौतत्वोपगमात् । यद्वा सादृश्यज्ञान एव लक्षणा, ससंबन्धिकस्थल एकदेशान्वयस्यापि व्युत्पन्नत्वात् । यद्वा अरविन्दमपि तात्पर्यग्राहकमेव तथा चारविन्दसाहश्यज्ञान एव लक्षणा इत्यादिकं विभाव्यते । तथाप्यस्मदपेक्षया गौरवं स्पष्टमेवेत्यादिकं ध्वनयन्नाह-अलमिति॥ पूर्वोक्तस्थलेऽपि सादृश्यस्य धात्वर्थान्वयबाधकयुक्तिं प्रदर्शयिष्यन् अन्यत्रापि सादृश्यस्य धात्वर्थान्वयं वारयितुमाह-गज इवेति । गजनिरूपितसादृश्यस्य गमने बाधाद्गजपदस्य तद्गमनपरत्वाश्रयणम्। तस्येति । गजगमनस्येत्यर्थः॥ प्रतियोगित्वेनेति । निपातार्थनामार्थयोर्भेदान्वयस्यापि व्युत्पत्तेः । तस्येति । साहश्यस्येत्यर्थः । इत्यादीति । पिकशब्दस्य तदीयरुते लक्षणा, तस्य इवार्थे सादृश्ये प्रतियोगित्वेन, सादृश्यस्याश्रयतया धात्वर्थे रुतेऽन्वयः । तेन पिकरुतसदृशरुतानुकूलकृतिमानिति बोधः । एवमन्यत्रापीति भावः । सादृश्यस्य धात्वर्थान्वयवादिनामेकेषां मतं
१. 'सादृश्यप्रकारकप्रकारत्व' क.