________________
_ अलंकारकौस्तुभः ।। विशेष्यकः-इति वैषम्यापत्तिः । 'अरविन्दतुल्यो न भवति' इति शाब्दबोधोत्तरम् ‘अरविन्दवद्भाति' इत्येतद्वाक्यजन्यशाब्दबोधापत्तिश्च, ग्राह्याभावानवगाहिज्ञानस्य प्रतिबन्धकत्वात् ॥ यदपि धातोरेव लक्षणया सादृश्यप्रकारकज्ञानमर्थः, तुल्यादिपदं तात्पर्यग्राहकम्-इति ॥ तदप्यसत् । तुल्यादिपदस्य सादृश्यानुपस्थापकत्वे उक्तोपमाया आर्थत्वव्यवस्थित्यभावात् न च–सादृश्यतात्पर्यग्राहकतामात्रेण तथात्वम्-इति वाच्यम्, तात्पर्यग्राहकत्वस्य श्रौतार्थत्वव्यवस्थापकत्वे मानाभावात् ॥ किंच तथापि क्लीबत्वापत्तिरनिवार्यैव-खार्थपरविशेषणस्यैव समानलिङ्गत्वम्-इति चेत् । तर्हि 'सामान्ये नपुंसकम्' इति क्लीबत्वपराहतं पुंस्त्वं कथं समादधीयात् । तस्मादालंकारिकसिद्धान्तानुरोधिनां यथोक्तरीत्याश्रयणमेव युक्तमित्यलं बहुना ॥ वत्येवेति सादृश्यं विशेषणतया, प्रकारत्वं च संसर्गतया, ज्ञानं च विशेष्यतया प्र. तीयते । ततश्च विशेषणांशे संसर्गाशे च विषयभेदापत्तिरिति भावः ॥ वैषम्यं ज्ञेयमेवेति । वतिप्रत्ययपर्यन्तानुधावनं तु तुल्यार्थविहितत्वात्सामानविषयकबोधस्यैवोचितत्वादिति ध्वननार्थम् । अरविन्दमिव भातीत्यनेनापि सह वैषम्यं ज्ञेयमेव । इवादौ सादृश्यमाश्रयत्वसंबन्धेन तुल्यादौ तु तद्वानभेदसंबन्धेन उपमेयेऽन्वीयत इति वैषम्याङ्गीकारेऽपि 'अरविन्दवद्भाति' 'अरविन्दतुल्यो भाति' इति द्वयोरुक्तरीत्या वैषम्याङ्गीकारे प्रमाणाभावात् । 'एतावन्मात्रस्यापि तथा दोषत्वाभावादाह-अरविन्देति । अरविन्दतुल्यत्वप्रकारकज्ञानाभावज्ञानस्यारविन्दतुल्यत्वप्रकारकज्ञानज्ञानं प्रत्यविरोधित्वादित्यर्थः । क्रियाविशेषणत्वप्रयुक्तक्लीबपरिहारार्थ केषांचित्कल्पनां सिं. हावलोकितन्यायेन दूषयितुमनुवक्ति-यदपीति ॥ तात्पयति । तथा च-क्रियाविशेषणानामिति नपुंसकत्वापत्तिरिति दोषभाव इति भावः । ननु तथैव परिभाषाकरणे दोषाभावः । किंच सादृश्यमात्रस्य धात्वर्थत्वाभावात्पूर्वोक्तमप्यार्थत्वमव्याहतमेवेत्यत आह-किंचेति॥तथापीति ॥ क्रियाविशेषणतात्पर्यग्राहकत्वेऽपीत्यर्थः। तहीति। यदपि तुल्यपदं क्रियाविशेषणम् , तदा तत्वेन क्लीबत्वापत्तिः । यदि तात्पर्यग्राहकमात्रम्, तदापि पुंलिङ्गविशेषणत्वाभावेन तदापत्तिः, लिङ्गविशेषाविवक्षायां नपुंसकमेव प्रयुज्यत इति सामान्ये नपुंसकमिति महाभाष्यकारादिभिर्व्यवस्थापितत्वात् । तदाह-सामान्य इति ॥ तथा च विशेषानिश्चये वक्तारो वदन्ति ‘किमस्य जातम् , स्त्री पुमान्वा' इत्यादि । अतस्तुल्यपदस्यैव सादृश्यादिकमर्थः । तस्य च मुखादावन्वय इत्येव युक्तमित्यर्थः ॥ अपि च-पूर्वोक्तविषयवैषम्यरूपदोषोऽत्राप्यवसेयः । तथा हि-सादृश्यप्रकारकज्ञाने १. 'वैषम्यं ज्ञेयमेव' इति टीकासंमत पाठः. २. 'यत्तु' क.
१२