________________
८८
काव्यमाला।
अत एव 'अरविन्दतुल्यो भाति' इत्यत्रापि नानुपपत्तिः । त्वन्मते सादृश्यस्य निपातभिन्ननामार्थत्वेन धात्वर्थे भेदेनान्वयानुपत्तेः । न च-तुल्यपदस्य तुल्यत्वप्रकारके लक्षणा तस्य चाभेदसंबन्धेन धात्वर्थेऽन्वयःइति वाच्यम् , तथा सति 'क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गता च वक्तव्या' इत्यनुशासनात्क्लीबत्वापत्तेः ॥ यत्तु-स्तोकं पचति' इत्यादि विषयत्वमात्रेणानुशासनोपपत्तिः-इति । तदसत्, संकोचे प्रमाणाभावात् । अपि च- 'अरविन्दतुल्यो भाति, अरविन्दवद्भाति' इत्याभ्यां तुल्यविषयकोऽनुभवः । तव तु प्रथमे-अरविन्दतुल्यत्वप्रकार(कत्वप्रकार)काभेदसंसर्गकज्ञानविशेष्यकः, द्वितीये तु–अरविन्दसादृश्यप्रकारकत्वसंसर्गकज्ञानसादृश्यस्य धात्वर्थज्ञानान्वयस्वीकारे दूषणान्तरमप्याह-अत एवेति । नानपेति । उपमेयस्य पुंलिङ्गतया तुल्य इत्यस्यापि तथात्वोपपत्तेः । मुखपदस्य नपुंसकत्वात्तत्र तुल्यपदस्य क्लीबत्वावश्यकत्वात् तत्र क्रियाविशेषणत्वप्रयुक्तक्लीबत्वापादानं इष्टापादानमेव स्यादित्यतस्तत्र पुंस्त्वसंपादनार्थमरविन्दपदमुक्तम् । इदं च प्रसिद्धाभिप्रायेण । हस्तादेः सहजपुंलिङ्गस्य सुलभत्वात् ॥ ननु तथापि सादृश्यस्य प्रकारत्वसंबन्धेन ज्ञान एवान्वयो भविष्यतीत्याशङ्कयाह-वन्मत इति । भेदेनेति । अभेदातिरिक्तसंबन्धेन निपा. तातिरिक्तनामार्थप्रकारकबोधे विभक्तिजन्योपस्थितेर्हेतुत्वात् । ज्ञानस्य च धात्वर्थत्वेन यथोक्तहेत्वभावादिति । [अ]भेदान्वये तु सादृश्याभिन्नज्ञानेति बोधः स्यात् , स चायोग्यतापराहत एवेति भावः । लक्षणेति । तथा च, सादृश्यप्रकारकस्य नामार्थत्वे तस्याभेदेन ज्ञानान्वयः; स्तोकं पचतीत्यादौ नामार्थधात्वर्थयोरभेदान्वयस्य व्युत्पन्नत्वादित्यर्थः ॥ संकोच इति । क्रियाविशेषणानां नपुंसकत्वस्य वाचनिकत्वादित्यर्थः । तच्च वचनं उक्तरूपं, 'ततोऽन्यत्रापि दृश्यते' इति वेत्यन्यदेतत् । ननु क्रियाविशेषणानां कर्मत्वं तावन्यायसिद्धमेव, न तु वाचनिकम् , स्तोकं पचतीत्यत्र पाकं करोतीति द्वितीयान्तपाकपदेन धात्वर्थविवरणात्तद्विशेषणतया तत्सामानाधिकरण्येन स्तोकस्यापि कर्मताया एवोचितत्वात् । अत एव 'यजेत' इत्यत्र विधिबलेन धात्वर्थस्य करणत्वावगमात् तत्र तद्विशेषणतया ज्योतिष्टोमेनेति तृतीयैवेति वैयाकरणमतमभिसं. धाय दोषान्तरमाह-अपि चेति ॥ तव त्विति । 'अरविन्दतुल्यो भाति' इत्यत्र सादृश्यस्य प्रकारत्वसंबन्धेन ज्ञानान्वयानुपपत्त्या तुल्यपदस्य तुल्यत्वप्रकारके लक्षणेत्युक्तत्वात् । तुल्यत्वप्रकारकविशेषणतया, अभेदश्च संसर्गतया, ज्ञानं विशेष्यतया भासते । 'अरविन्दवद्भाति' इत्यत्र तु सादृश्ये लक्षणाखीकारेऽपि तस्य वतिप्रत्ययार्थतया ज्ञानातिरिक्तनामार्थत्वाभावेन तस्य प्रकारत्वसंबन्धेन ज्ञानान्वयः संभ
१. 'निपतिरिक्त' क.