________________
अलंकारकौस्तुभः । प्रमाया धात्वर्थत्वाभावाच्च । अस्माकं तु 'अरविन्दसदृशं मुखं ज्ञानविषयः' इति बोधे प्रतिबन्धकज्ञाननिर्वाहान्न काप्यनुपपत्तिः । न च-एवमपि 'मुखमरविन्दमिव भाति' इत्यत्र 'अरविन्दसादृश्यप्रकारकधीविशेष्यः' इति धीरावश्यकी-इति वाच्यम् , तत्रापि 'स्वप्रकारकज्ञानविषयत्वसंबन्धेन सादृश्यवत्' इत्येव बोधात् । धातोरुक्तसंसर्गे तात्पर्यग्राहकत्वात् । न च-सादृश्यप्रकारकधीविषयो न वा' इति संशयाद्यनिवृत्तिप्रसङ्गः तत्प्रकारकतदभावज्ञाने तत्संसर्गकबुद्धेरप्रतिबन्धकत्वात्-इति वाच्यम् , तादृशस्यापि प्रतिबन्धकत्वाभ्युपगमात् । क्षणविलम्बकल्पनाद्वा । इति दिक् ॥ प्रमाया इति । ज्ञानमात्रस्यैव धात्वर्थत्वात् । तल्लक्षणायां च गौरवान्मानाभावाच्चेत्यर्थः ॥ ननु तत्प्रकारकधीविशेष्यत्वस्य तद्वयभिचारेऽप्यरविन्दसादृश्यप्रकारकधीविशेष्यत्वशाब्दबोधानन्तरं 'अरविन्दसदृशं मुखं' इति ज्ञानान्तरोत्पत्ती किं बाधकम् , नह्यत्र-मुखमरविन्दसादृश्यवत् , तत्प्रकारकधीविशेष्यत्वात्' इत्यनुमानविधयारविन्दसदृशत्वं मुखे ग्राह्यम् , येन-तत्र व्यभिचारज्ञानं विरोधि स्यात् । किंतु मानसमेव तादृशज्ञानमपेक्षितम् । तत्र च तद्विषयतापन्नानां पदार्थानामुपस्थितिमात्रमपेक्ष्यते, तच्चास्त्येव । अरविन्दसादृश्यमुखयोः शाब्दबुद्धौ भासमानत्वात् । अतस्तादृशशाब्दबोधोत्तरमरविन्दसादृश्यप्रकारकमुखविशेष्यकमानसोत्पत्तौ बाधकाभावात् कथमेवं संगच्छते-इति चेत्, सत्यम् । नियतप्रतीतिर्न स्यादित्यत्र तात्पर्यात् । अनुमानेन तदुपादाने चोक्तव्यभिचारज्ञानसत्वे तदसंभवात् ॥ न चैवमिति । तत्र मुखानुवादेन सादृश्यस्य विधेयत्वेन बोधादित्याशयः । स्वप्रकारकेति । खपदं सादृश्यपरम् । एवं च सादृश्यस्य विधेयत्वानुभवो रक्षितो भवतीति भावः ॥ नन्वेवं भातीत्यनन्वितं स्यादित्यत आह-धातोरिति । ननु पूर्वमनुयोगिताविशेषसंबन्धेनैव उपमेये सादृश्यान्वयो व्यवस्थापितः, तत्कथं खप्रकारकज्ञानविषयत्वसंसर्गेण मुखे तदन्वयः ॥ उच्यते-कालिकविशेषणताव्यावृत्तेरेव तेन विवक्षितत्वात् । न चैवं चन्द्र इवे. त्यादावपि उक्तसंबन्धेन सादृश्यप्रकारकज्ञानापत्तिरिति वाच्यम् , भातीत्यादिसमभिव्याहाररूपतात्पर्यग्राहकाभावात् ॥ अथैवमपि-अरविन्दसदृशं न वेत्यादिसंशयनिवृत्तिरुक्तशाब्दबोधान्न स्यादिति चेत् । तवापि तत्साम्यात् । अरविन्दसादृश्यप्रकारकधीविशेष्यत्वप्रकारकज्ञानस्यापि तादृशसंशयं प्रत्यविरोधित्वात् । न च यत्रारविन्दमिव भातीत्युपमेयार्थकपदरहितमेव वाक्यं प्रयुक्तम् , तत्र तस्य पदजन्योपस्थितेरभावेन सादृश्यस्यानुयोगित्वेनान्वयासंभवात्तत्र प्रकारतासंबन्धेन तस्य धात्वर्थे ज्ञान एवान्वयोऽवश्यं वाच्य इति वाच्यम् । तत्रापि तदध्याहारावश्यकत्वात्सादृश्यस्य प्रतियोग्यनुयोग्युभयनिरूपणं विना निरूपयितुमशक्यत्वात् । अन्यथा आख्यातार्थविशेष्यत्वस्यापि प्रथमान्तपदोपस्थाप्यरूपविशेष्याभावेनानन्वयापत्तेः । तदेतत्सर्व ध्वनयन्नाह-दिगिति ।