________________
काव्यमाला।
खम्' इत्येव बोधात् । सुन्दरादिपदोपादानेऽपि तादृशसादृश्यवन्मुखं सुन्दरम्' इत्येव बोधात् । सादृश्यप्रयोजकधर्माकाङ्क्षायां सौन्दर्यस्यैव मानसेन तत्त्वेन विषयीकरणाच्च । सौन्दर्येणेत्युक्तौ च ‘सौन्दर्यप्रयोज्यारविन्दसाहश्यवन्मुखम्' इति बोधः ॥ न च—'मुखं न चन्द्र इव' इत्यादौ सादृश्यस्य प्रतियोगितासंबन्धेन नञर्थे प्रकारत्वाव्यभिचारः-इति वाच्यम् । प्रतियोगित्वातिरिक्तस्य कार्यतावच्छेदकसंबन्धेऽभिधेयत्वात् । एवं 'चन्द्रसादृश्यं मुखवृत्ति' इत्यत्रापि न व्यभिचारः । अत्र प्रकारतासंबन्धेन सादृश्यस्यान्वयाबोधात् ॥
ननु–एवं सति-'अरविन्दमिव सुन्दरं मुखम्' इति शाब्दबोधात् 'मुखवृत्त्यरविन्दीयसादृश्यं सौन्दर्यप्रयोज्यं न वा' इति संदेहनिवृत्तिर्न स्यात्, त्वद्रीत्या सौन्दर्यप्रयोज्यत्वस्य सादृश्ये मानसगम्यत्वात् । न च-तत्र मानसोत्तरमेव संशयनिवृत्तिः, न तु शाब्दबोधा व्यवहितक्षणे क्षणविलम्बस्य
तुरिति हेतुहेतुमद्भावस्य त्वयाप्यवश्यं कल्पनीयत्वात् 'अरविन्द मिव मुखं भाति' इत्यत्रापि सादृशस्य मुख एवान्वयो युक्तो न तु धात्वर्थे ज्ञान इति भावः । ननु त्वदुक्तरीत्या सादृश्यस्य सौन्दर्यप्रयोज्यत्वं न लभ्येतेत्यत आह-सादृश्यप्रयोजकेति । मानसेनेति । तथा च, तादृशस्थले सादृश्यनिष्ठसौन्दर्याप्रयोज्यत्वज्ञानस्य शाब्दत्वमसिद्धमेवेत्यर्थः ॥ न चेति । तत्र इवार्थसादृश्यस्य प्रतियोगितासंबन्धेन नअर्थाभावान्वयात् , अभावस्य च विशेषणतया मुखान्वयात् 'चन्द्रप्रतियोगिकसादृश्याभाववन्मुखम्' इति बोधोदयात् । क्वचित्सादृश्यस्योपमेयभिनेऽपि विशेषणत्वं दृष्टमेवेति भावः । प्रतियोगित्वेति । तथा च, प्रतियोगित्वातिरिक्तसंबन्धेन सादृश्यप्रकारकशाब्दबोधकत्वं कार्यतावच्छेदकं कल्प्यते, अभावे च प्रतियोगित्वसंसर्गेणैव सादृश्यप्रकारकबोधोदयान व्यभिचारः, संबन्धस्य तु तदतिरिक्तत्वेन सादृश्यस्य तेन संबन्धेन धात्वर्थान्वये व्यभिचारः स्यादेवेति भावः । नन्वेवमपि 'चन्द्रसादृश्यवान्काल:' इत्यत्र कालिकसंबन्धेन सादृश्यप्रकारकबोधे व्यभिचार इति चेत्, सत्यम् । इवपदजन्योपस्थितिविषयसादृश्यप्रकारकशाब्दत्वस्य कार्यतावच्छेदकत्वोपगमात् । अत्र च सादृश्यस्य इवपदजन्योपस्थितिविषयत्वविरहात् कालिकविशेषणताविवक्षायां 'चन्द्र इव कालः' इति शब्दस्तु न प्रयुज्यत एव, तादृशसादृश्यस्यानुयोगिताविशेषसं
१. 'तोत्तर' क.
१. 'शाब्दत्वम्' क.