________________
अलंकारकौस्तुभः । दुर्घहत्वात्-इति वाच्यम्, तत्कल्पने मानाभावात्-इति चेत्, न । 'अरविन्दमिव भाति' इत्यत्रापि 'अरविन्दनिरूपितसादृश्यप्रकारकधीविशेष्यः' इत्येतद्बोधादपि 'अरविन्दसदृशं न वा' इति संशयानिवृत्तिप्रसङ्गसत्त्वात् । क्षणविलम्बकल्पनस्य चोभयत्र साम्यात् । एवं च 'अरविन्दमिव भाति' इत्यत्रापि 'तादृशसौन्दर्यवन्मुखं ज्ञानविषयः' इत्येव बोधः । अन्यथोक्तकार्यकारणभावे व्यभिचारापत्तेः । तादृशसंबन्धेन बोधे धातुजन्योपस्थितिकल्पनगौरवाच्च ॥ नन्वेवम्-चैत्रीयसादृश्यप्रकारकज्ञानाभावेऽपि 'अरविन्दमिव मुखं चैत्रस्य भाति' इति प्रयोगः स्यात्, तादृशसौन्दर्यवतो मुखस्य ज्ञानविषयत्वसत्त्वात् । मम तु सादृश्यप्रकारकत्वस्य ज्ञानेऽलाभान्न तथा—इति चेत् ॥ इष्टापत्तेः । रूपान्तरेण मुखप्रकारकज्ञानसत्त्वेऽपि 'मुखं चैत्रस्य भाति' इत्यादि प्रयोगात् ॥ न च—'मुखत्ववन्मुखं भाति' इति न तदा प्रयोगः-इति वाच्यम्, बाधकाभावात् , प्रकारत्वार्थकविभक्त्याबन्धेनैवान्वयनियमात् , यथा रजतत्वस्य कालिकविशेषणतया काले ग्रहेऽपि 'का. लो रजतत्ववान्' इति रजतत्वेन रूपेण रजतत्ववत्तावगाहिबोधजनक एव शब्दः प्रयुज्यते, न तु रजतत्वांशनिरवच्छिन्नप्रकारताकबोधजनकः 'कालो रजतम्' इ. त्यादिरपि रजतशब्दशक्तौ रजतत्वांशे समवायस्यैव संसर्गतया निवेशात् । तथा प्रकृतेऽपि । नन्वेवं 'चन्द्रसादृश्यं मुखवृत्ति' इत्यत्र सादृश्यस्य प्रकारतयान्वयबोधविरहायभिचारसमाधानमनुपपन्नम् , तत्र तस्य इवपदार्थत्वाभावादेव तच्छङ्कानुदयादिति चेत्सत्यम्, तस्य यथा श्रुतपरत्वात् । परंतु प्रकारकत्वमनिवेश्य साहश्यविषयकान्वयबोधत्वमात्रस्य कार्यतावच्छेदकत्वोपगमे चन्द्रादिपदस्यापि प्रतियोगितया तदन्वयित्वात्सादृश्यविषयकान्वयबोधत्वावच्छिन्नस्य तत्रापि जायमानत्वात् तस्य तदनुयोगित्वाभावेन व्यभिचारः स्यात् । अतः सादृश्यप्रकारकत्वं कार्यतावच्छेदके निवेशितमित्यत्रैव तात्पर्यम् ॥ व्यभिचारापत्तेरिति । तदनुयोग्युपस्थापकपदजन्योपस्थिति विनापि तत्र इवार्थसादृश्यप्रकारकबोधत्वावच्छिन्नोत्पत्तेः ॥ ननु तदनुयोग्युपस्थापकपदधात्वे तदन्यतरजन्योपस्थितेरेव तत्र हेतुत्वं कल्प्यतामत आह-तादृशेति ॥ ज्ञानाभावेऽपीति । मुखज्ञानसत्वे चेयपि द्रष्टव्यम् ॥ ज्ञानेऽलाभादिति । उक्तस्थले च सादृश्यप्रकारकज्ञानाभावान तद्बोधशब्दप्रयोग इत्यर्थः । रूपान्तरेणेति । द्रव्यत्वा दिनेत्यर्थः । प्रकारत्वेति । तृतीयारूपेत्यर्थः । तज्ज्ञाने मुखत्वादेः प्रकारत्वे तदुल्लेखाय तद्विषयकशब्देऽपि 'मुखत्वेन मुखं
१. 'मैत्रीय' क.