SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । ८३ तदभिधानादार्थत्वम्' इति स्वयमेवोक्तम् । अत्रत्यरीत्या तु तत्रापि वाचकलुप्तत्वं स्यादिति स्वग्रन्थविरोधोऽपि दुष्परिहर इति दिक् ॥ (यैदपि—) ‘अरविन्दमिव भाति' इत्यत्रेवार्थः सादृश्यम् । तत्रारविन्दस्य निरूपितत्वसंबन्धेनान्वयः, सादृश्यस्य च प्रकारतासंबन्धेन धात्वर्थे ज्ञा (भा) नेऽन्वयः । तथा च – 'अरविन्द निरूपितसादृश्यप्रकारकधीविशेष्यः' इति बोधः । सौन्दर्येणेत्यस्याप्युपादाने तृतीयार्थः प्रयोज्यत्वं धात्वर्थे भाने, इवार्थे सादृश्ये वान्वेति । तेन 'सौन्दर्यप्रयोज्यारविन्द निरूपितसादृश्यप्रकारकधीविशेष्यः' इति बोधः - इति ॥ अत्र ब्रूमः - ' प्रकारतया सादृश्यान्वयबोधं प्रति तदनुयोग्युपस्थापकपदजन्योपस्थितित्वेन हेतुता' इति कार्यकारणभावो लाघवात्कल्प्यते, 'अरविन्दमिव मुखम्' इत्यादि साधारण्यात् । ' अरविन्दनिरूपितसादृश्यवन्मुतीत्येवालंकारिकाणामाशयः । तदनभिज्ञस्य सादृशप्रत्ययस्त्वसिद्ध एव । उपमा चेयं श्रौत्यार्थी वेत्यत्र विद्वांस एव मानम् । अरविन्दवत्सुन्दरमिति तुल्यार्थकवति प्रत्यये - नापि तदर्थोल्लेखदर्शनात् । वस्तुतस्तु शस्त्रीव श्यामेति भगवतां महाभाष्यकाराणां 'उपमानानि सामान्यवचनैः' इति सूत्रे प्रयोगाणां बहुलमुपलम्भात् तदनुरोधेनैव निर्णयो युक्त इति सहृदयैर्विचारणीयम् । वैयाकरणास्तु — पूर्वपदं तदर्थसदृशे लाक्षणिक सूचयितुमेव विग्रहवाक्ये इवशब्दप्रयोगः । अत एव मृगीव चपला मृगच सामानाधिकरण्यनिमित्तः पुंवद्भावः - इत्याहुः । तदेतत्सर्व ध्वनयन्नाह - दिगिति ॥ रसगङ्गाधरोक्तं बोधान्तरमपि विचारयति - यदपीति । निरूपितत्वेति । निपातार्थनामार्थयोर्भेदेनापि साक्षादन्वयाभ्युपगमात् । प्रकारतेति । निपातार्थधात्वर्थयोः प्रकारीभूतविभक्त्यर्थोपस्थितिं विनापि साक्षादेव भेदान्वयस्य 'न कलजं भक्षयेत्यादौ' व्युत्पन्नत्वात् ॥ धात्वर्थ इति । भाधातोर्ज्ञानार्थत्वस्यापि प्रसिद्धेः । तदुत्तराख्यातस्य तु विशेषत्वमर्थः, तदाहह - धीविशेष्य इति || अन्य स्पष्टमेव ॥ अन्वय इति । तृतीयार्थप्रयोज्यत्यस्येति शेषः । वोधद्वयं तन्त्रेण दर्शयतितेनेति । अत्र प्रयोज्ये तस्य धीपदार्थेन समन्वये आद्यः सादृश्येनान्वये द्वितीयो बोध इति विशेषः ॥ प्रकारतयेति ॥ सादृश्यनिष्ठप्रकारता निरूपित विशेष्यतासंबन्धेन सादृश्यान्वयबोधं प्रतीत्यर्थः । लाघवमेव दर्शयति- अरविन्दमिवेति । तथा च, तत्र इवार्थसादृश्यप्रकारक बोधे मुखादिरूपोपमेयार्थकपदजन्योपस्थितिर्हे१. पुस्तकद्वयेऽप्यनुपलब्धं टीकानुरोधाद्वर्धितम्. १. 'कण्ठोक्तमेव' क.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy