________________
८२
काव्यमाला।
पदाभावात्रयाणां लोपात्-इति । तदप्यसत् , मात्रपदोपादाने बीजाभावागौरवाच्च । स्वेतराबोधकत्वे सति खबोधकत्वस्य तदर्थत्वात् । असिद्धेश्च । उपमानादिपदानामपि चन्द्राद्यन्यचन्द्रत्वतत्संबन्धबोधकत्वात् ॥ अथ-स्वविषयकत्वाभाववद्वत्तिविषयिताकान्यज्ञानजनकत्वं तदर्थः-इति चेत् । तर्हि प्रस्तुतेऽपि वस्तुन्यस्तु दृष्टिप्रक्षेपः । अत एव 'काव्यस्य सदृशम्' इत्यत्र सदृशपदस्योपमाने लक्षणां कृत्वा तदानीं सादृश्यवाचकपदाभावेन द्विलुप्तत्वं स्यादित्याशङ्कय सादृश्यप्रतियोगित्वरूपोपमानत्वार्थकसदृशपदसत्त्वेन वाचकलोपाभावः-इति व्याख्यातं न्यायालंकारादिभिः॥त्वद्रीत्या तु लक्षणागम्येऽप्यर्थे लुप्तत्वव्यवहाराल्लक्ष्यतावच्छेदकीभूतसादृश्यस्य सुतरां तदर्थत्वाभावादनुपपत्तिः स्यात् । 'अरविन्दवत्सुन्दरम्' इत्यत्र 'तेन तुल्यम्-' इति विहितस्य वतेः 'सादृश्यवदर्थस्य सादृश्ये लक्षणा' इत्युक्त्वा लक्षणया लोपाभावादित्यपि द्रष्टव्यम् ॥ तथा च लक्षणायां लुप्तत्वाभ्युपगमे तत्र वाचकोपमानोभयलुप्तत्वापत्तिरिति तद्विरोध इति भावः ॥ ननु तत्रापि त्रिलुप्तत्वे इष्टापत्तिरेवेति रसगङ्गाधरोक्तिमनुवदति-यदपीति । असिद्धेश्चेति । स्वेतराबोधकत्वस्येति शेषः । तामेव दर्शयति-उपमानादीति ॥ चन्द्रत्वेति । चन्द्रत्वप्रकारकचन्द्रविशेष्यकसमवायादिसंसर्गकज्ञानत्वस्य चन्द्रपदशक्तिज्ञानकार्यतावच्छेदकत्वाभ्युपगमात् । अथ स्वेति । खं उपमानादितद्विषयकत्वाभाववत् घटादिज्ञानं तद्वृत्तिविषयिताकान्यत् ज्ञानं चन्द्रादिज्ञानं तजनकत्वं चन्द्रादिपदानामस्त्येव चन्द्रत्वादेरधिकस्य भानेऽपि चन्द्रादिविषयकत्वस्यापि तत्र सत्त्वादधिकमिति न्यायादिति भावः । एवं सति प्रकृतेऽपि खेतराबोधकत्वं न निवेश्यत इत्याह-तीति॥इतरबोधकत्वेऽपि सादृश्यबोधकत्वस्यापि स. वादित्यर्थः ॥ ननु उपमानविषयकत्वव्यापकविषयिताप्रतियोगिशाब्दबोधविषयत्वमेव विवक्षितम् , चन्द्रादिपदजन्यशाब्दबोधस्य चन्द्रत्वादिविषयकत्वनियमात् । सादृश्यादिकं तु न, तज्ज्ञानविषयत्वनियतमित्यखरसाद्दोषान्तरमाह-किंचेति ॥ चतुर्णामिति यथा सादृश्यादिमानार्थकपदाभावात्तत्र त्रिलुप्ता, तथोपमेयमात्रार्थकपदाभावादुपमेयलुप्तापीति चतुर्लप्तापि तत्रोपमा स्यात् । न चेष्टापत्तिः, त्वयापि तस्या अनभ्युपगमात् । प्रन्थान्तरविरोधमाह-अपि चेति । ग्रन्थान्तरविरोधस्य तथा दूषणत्वाभावात्तन्थविरोधमेवाह-किंचेति ॥ न चार्थत्वेऽपि वाचकलुप्तत्वं तत्र कुतो न भवतीति वाच्यम्, लुप्तोपमायां तस्य परिगणनापत्तेः, तेनाप्यपरिगणनाच्च । तस्मादरविन्दसुन्दरमित्यादौ समासवशात् अश्रूयमाणोऽपीवशब्दः स्मृत एव सादृश्यं बोधय
१. 'अपि च' क. २. "किंच' इत्यधिकं क-पुस्तके.