________________
अलंकारकौस्तुभः । शक्त्यभावात्तत्रापि वाचकलुप्तत्वापत्तेः । न च-वृत्तित्वस्य शक्तिलक्षणान्यतरत्वरूपस्य निवेशापेक्षया शक्तिनिवेशे कुतो गौरवम्-इति वाच्यम् , शक्तिजन्यबोधस्य लक्षणाजन्यबोधात्प्रकृते वैलक्षण्याभावेन विशेषनिवेशानुपपत्तेः । चमत्कारप्रयोजकरूपस्यैवोपमाविभाजकत्वात् । नच-त्वन्मतेऽपि वत्यादीनां सादृश्ये शक्तिलक्षणान्यतराभावेन दोषसाम्यम्-इति वाच्यम्, वृत्त्या तद्विषयतानियतबोधजनकत्वस्य विवक्षितत्वात् । अत एव 'मृगनयना हरते मुनेर्मनः' इत्यत्र वाचकधर्मोपमानलुप्तामुदाहरता काव्यप्रकाशकृता 'सप्तम्युपमान-' इत्यादिना समासलोपौ यदा भवतस्तदेदमुदाहरणम्-इत्युक्तम् । कैयटायुक्तरीत्या 'मृगपदस्यैव मृगनयनसदृशे लक्षणा' इति यदि खीक्रियते, तदा तदर्थकमृगशब्दसत्वेनोपमानलोपाभावात्-इति हि तदाशयः । यदपि तैरुक्तम्-तत्रापि त्रिलुप्तैव, लक्षणापक्षे 'वृत्तेविशिष्टार्थवाचकत्वम्' इति वैयाकरणमतेऽपि वखमात्रबोधक'चन्द्रतुल्यं मुखम्' इत्यादावपि वाचकलुप्तत्वापत्तिरित्यर्थः ॥ शक्त्यभावादिति। अन्य. था तत्रापि श्रौतत्वापत्तौ त्वत्सिद्धान्तभङ्गापत्तेरित्यर्थः ॥ तमनाकलयन्खरूपगौरवं तत्रोद्भावयति-न च वृत्तीति । स्वाभिप्रायं विशदयति-शक्तिजन्येत्यादिना ॥ अत एवाह शक्तिनिवेशे इति ॥ तथा च खरूपलाघवापेक्षया संग्राहकलाघवमेव बलीय इति वृत्तित्वनिवेश एव युक्तो विशेषनिवेशे प्रयोजनाभावादित्यर्थः ॥ चम. कारेति । यद्यप्येवं इवादितुल्यादिपदभेदेनाप्युपमाविभागो न स्याद्विजातीयचमत्कारस्य तत्राप्यनुदयात् । तथापि सादृश्यार्थकशब्दभेदादिनैव उपमाविभागः, न तु वृत्तिभेदेनेत्यत्र तात्पर्यम् । न च यन्मते तुल्यादीनां सादृश्ये लक्षणेत्यार्थी इवादीनां तु सादृश्ये शक्तिरिति श्रौतीति विभागः, तत्र वृत्तिभेदेनाप्युपमाविभागोऽस्त्येवेति वाच्यम् । वृत्तिभेदेन लुप्तत्वादिविभागो नास्तीत्यत्र तात्पर्यात् ॥ शक्तिलक्षणान्यतरेति । धर्मिण्येव शक्तिस्वीकारेण सादृश्यरूपधर्मे शक्तिविरहः स्पष्ट एव, तत एव सादृश्यबोधोपपत्तौ लक्षणाया अपि तत्र विरह एव विशिष्टशक्तिपदानां विशेषणबोधार्थ तत्र लक्षणानङ्गीकारात् । सादृश्यशक्त्या श्रौतत्वं तल्लक्षणाया चार्थत्वमिति विभागस्य च त्वयानभ्युपगमात् । येन ममेव तदर्थ तवापि लक्षणा स्यादिति भावः ॥ तद्विषयतेति । तथा च तत्र शक्त्यभावेऽपि सदृशबोधस्य सादृश्यविषयितानियमात् तजनकत्वमस्त्येवेति न वाचकलुप्तत्वापत्तिरित्यर्थः । ननु तत्र वाचकलुप्तत्वे इष्टापत्तिरित्याशङ्कय तत्रापि सिद्धान्तमुद्भावयति-अत एवेति ॥ उपमानलोपाभावादिति । वाचक१. 'यदा' इति क-पुस्तकेऽधिको दृश्यते पाठः.