________________
काव्यमाला ।
सादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिन्नं मुखम्' इति धीः ॥ 'समुदायस्यैव तादृशविशिष्टार्थपरता' इत्येके' || 'अरविन्दपदस्यैव लक्षणया सर्वोऽर्थः सुन्दरपदं तात्पर्यग्राहकम्' इत्यन्ये ॥ अत्रोच्यते —— पक्षत्रयेऽपि 'अरविन्द - सुन्दरम्' इत्यत्र समासगतवाचकलुप्तोपमात्वं सिद्धान्तसिद्धमसिद्धं स्यात्, सादृश्यवाचकपदसत्त्वात् । न च - सादृश्ये लक्षणेति न तद्वाचकपदसत्वमिति न तद्विरोधः – इति वाच्यम्, वाचकत्वं ह्यत्र वृत्त्या तदुपस्थापकत्वमेव, न तु शक्त्यन्तर्भावः, गौरवात् । अन्यथा 'तेन तुल्यम्' इत्यादिना विहितस्य वैत्यादेरपि धर्मिशक्तितया पदार्थतावच्छेदकीभूतसादृश्ये वात्रानुभवेन आश्रयत्वप्रकारकानुभवाभावात् । अत एव भिन्नपदादन्यपदस्य विशेषः । भेदाश्रययोः क्रमेण प्रकृतिप्रत्ययार्थतया भिन्नपदस्य भेदाश्रयपरत्वादन्यपदस्य च भेदविशिष्टपरत्वात् । अत एवावयवदीधितौ इतरभेदानुमानस्थले इतराणि न, इतरेभ्यो भिन्नानि इतरेभ्यो भिद्यन्ते, इतरेभ्योऽन्यानि चेति प्रतिज्ञाचतुष्टयमुपन्यस्तम् । अत्र प्रथमपक्षे --भेद एव पक्षे प्रकारः, आश्रयत्वं संसर्गः, नञर्थभेदस्यानुयोगित्व संबन्धेन पक्षेऽन्वयात् । द्वितीये – निष्ठार्थस्याश्रयस्य भेदाश्रयत्वेन रूपेणाभेदो भासते । तृतीये - आख्यातार्थस्याश्रयत्वस्य साक्षात्पक्षे प्रकारत्वम् धात्वर्थनामार्थयोः साक्षादन्वयाबोधेन प्रकारीभूतविभक्त्यर्थोपस्थितेरावश्यकत्वात् । चतुर्थे – इतरभेदप्रकारेण तादृशभेदवदभेदो भासते इति अन्यभिन्नपदयोर्विशेषस्य व्याख्यातत्वात् ॥ समुदायस्येति ॥ अस्तमितपदपदार्थविभागस्यारविन्दसुन्दरमिति समासवाक्यस्येत्यर्थः ॥ एक इति । वैयाकरणमतानुयायिन इत्यर्थः । तैः समासे विशिष्टशक्तिस्वीकारात् । सुन्दरपदमुपलक्षणं सुन्दरपदस्यैव तावानर्थः, अरविन्दपदं तात्पर्यग्राहकमित्यपि बोध्यम् ॥ ननु मास्त्वत्र वाचकलुप्तात्वमित्यत आह - सिद्धान्तेति ॥ उपमानस्य साधारणधर्मेण सह समासस्थल एव समासे वाचकलुप्तोपमायाः सर्वैर्ग्रन्थप्रकारैरुदाहृतत्वात् ॥ सादृश्यवाचकेति । येन यत्रैव सादृश्ये लक्षणा स्वीक्रियते तन्मते तत्पदस्यैव सादृश्यार्थकत्वात्तस्य च श्रूयमाणत्वात् । वाचकपदस्य च बोधकमात्रपरत्वादिति भावः । मुखवाचकत्वमादाय शङ्कते - न चेति । तथा च सादृश्यार्थकपदसत्त्वेऽपि तस्य लाक्षणिकतया वाचकलुप्तत्वमव्याहतमेवेत्यर्थः । अभिप्रायमाह - वाचकत्वं हीति ॥ गौरवादिति । वृत्तित्वस्य सामान्यरूपतया तदपेक्षया शक्तेर्विशेषत्व निबन्धनादित्याशयः । ननु तत्रैवायं विवाद इति कथमेतदित्यत आह- - अन्यथेति । सादृश्ये लक्षणास्थलेऽपि वाचकलुप्तत्वस्वीकारे इत्यर्थः । वतिप्रत्ययादेरिति । आदिपदात्तुल्यादिपदसंग्रहः । तथा च
१. 'वतिप्रत्ययादेरिति' इति टीकासंमतः पाठः.
१. ' सादृश्यार्थकेति' ख.
८०