________________
अलंकारकौस्तुभः ।
७९ 'आशामोदकतृप्ता ये ये चोपार्जितमोदकाः।
रसवीर्यविपाकादि तुल्यं तेषां प्रसज्यते' ॥ इति दिक् ॥ केचित्तु—सादृश्यं पदार्थान्तरमभ्युपगम्यैवं बोधमाहुः—'अरविन्दसुन्दरम्' इत्यत्रारविन्दपदस्यारविन्दनिरूपितसादृश्यप्रयोजकत्वे लक्षणा तस्य चाभेदसंसर्गेण सुन्दरपदार्थैकदेशे सौन्दर्येऽन्वयः । 'चैत्रस्य नप्ता' इत्यादावेकदेशान्वयस्य बहुशो दर्शनात् । तथा च-'अरविन्दनिरूपितधात्वर्थान्वयाभिधानात् सादृश्यस्यैव तदर्थत्वमभिमतं सदृशार्थत्वे तस्य तादात्म्यसंबन्धेनैव इच्छान्वयोपपत्त्या अनुयोगित्वस्य तत्संबन्धकत्वकल्पनानुपपत्तेः । तुल्यादिपदानां तु भेदान्वयानुपपत्त्यैव धर्मिपरत्वं कलप्यत इत्युक्तत्वात् । 'व्यक्तं च वतिप्रत्ययेन व्यक्तिज्ञानयोः सादृश्यमभिधीयते' इति लीलावत्युपाधे सामान्यप्रकरणे ए. कव्यक्तिवदिति मूलव्याख्यावसरे वर्धमानचरणैरुक्तम् ॥ अतः कथं सादृश्यार्थपदसत्वेऽपि तुल्यार्थकवतावुपमाया आर्थत्वं स्यात् । अस्मन्मते तु चन्द्रवृत्तित्वस्य वतिप्रत्ययार्थत्वाभावेऽपि धर्ममात्रपरत्वेन तस्य यथोक्तविरोधाभावात् । वृत्तित्वस्य वतिप्रत्ययार्थबहिर्भावस्तु तुल्यार्थे तद्विधानानुरोधादिति यथोक्तरीत्यैव श्रौतार्थत्वविभागो निरवध्य इति आशयवानुपसंहरति-दिगिति । मीमांसकैः सादृश्यस्यातिरिक्तपदार्थस्वीकारातन्मतेन विचारयितुमुपन्यस्यति-केचित्त्विति । सादृश्यमिति । सादृश्यपदेनाधिलप्यमानं वस्त्वित्यर्थः । पदार्थान्तरमिति । तद्गतधर्मबुद्धिव्यङ्गयं तदतिरिक्तं सप्रतियोगिकं भावमित्यर्थः । एकदेश इति । सुन्दरपदस्य सौन्दर्यवदर्थकत्वात् । ननु ‘पदार्थः पदार्थेन' इति व्युत्पत्तैर्घटं पश्येत्यादौ घटत्वनिष्ठप्रकारतानिरूपितकर्म. त्वीयविशेष्यताशालिज्ञानवारणाय पदार्थनिष्ठविशेष्यतानिरूपितप्रकारतयान्वयबोधं प्र. तिविशेष्यतासंबन्धेन पदजन्योपस्थितेहेतुत्वमिति कल्पितत्वात्कथं पदार्थस्य तदेकदेशान्वय इत्यत आह-चैत्रस्येति । स्वजन्यपुरुषजन्यपुरुषस्य नप्तृत्वपदार्थत्वात् तदेकदेशे जन्ये चैत्रस्यान्वयाभ्युपगमात् विशेष्ये पुरुषे तदन्वये चैत्रपुत्रेऽपि चैत्रस्य नप्तेति प्रयोगप्रसङ्गात् । स्वपितृजन्यचैत्ररूपपुरुषजन्यत्वस्य तत्पुत्रे सत्वात् । अंत उ. क्तरीत्या चैत्रसंबन्धिजन्यत्वाश्रयपुरुषजन्यपुरुष इति तत्र बोध इति भावः ॥ अथ तत्र जन्यत्वे पुरुषे च नतृपदस्य द्वे एव शक्ती लाघवात् । तत्र चैत्रस्य जन्यत्वे, तस्य पुरुषे, तस्य पुनर्जन्यत्वे, तस्य च पुनः पुरुषेऽन्वय इति यथोक्तधीसिद्धेः । तत्र जन्यत्वस्य पदार्थैकदेशत्वाभावात्पदार्थ एव तदन्वय इत्यत आह-इत्यादाविति ॥ चैत्रादन्य इत्यादावित्यर्थः । अन्यपदस्य भेदवत्येव शक्तेस्तदेकदेशे भेदे प्रतियोगितया चैत्रादेरन्वयः । न चात्रापि भेदे आश्रये च शक्तिद्वयमेवेति वाच्यम् , भेदप्रकारेणै१. "दिकू' इति ख-पुस्तके न दृश्यते. १. 'कथना' क.