________________
काव्यमाला।
श्रौतीत्वं स्यात् । उपमानादिविशिष्टविषयत्वनियतशाब्दबोधविषयत्वस्यापि वतिप्रत्ययत्वावच्छेदेन व्यभिचाराभावेन सादृश्यमुख्यविशेष्यकज्ञानजनकत्वसत्त्वात् । अनुयोगित्वसंबन्धेन तद्बोधकत्वस्यापि वतिप्रत्ययस्य तुल्यार्थे विधानेन तद्योगे यथा आर्थी तथा वतिप्रत्ययप्रयोगेऽपीति त्वया कल्पनीयम् । तदानुशासनिकमेव तुल्यपदसमानार्थकत्वं वतिप्रत्ययस्य मयाश्रयणीयमिति निर्मूलकल्पनोपजीविना त्वया समालम्बितदृढतरप्रामाण्यावष्टम्भस्य ममोपरि चोद्याभास उद्भाव्यत इति महत्साहसम् ॥ तदुक्तम्वादिति भावः । वस्तुतस्तु-वत्यर्थसादृश्यस्य नामार्थत्वेऽपि 'तद्धितश्चासर्वविभक्तिः' इति सूत्रात्तस्याव्ययत्वेन निपातातिरिक्तनामार्थत्वाभावाद्भेदान्वयोपपत्तिरित्यत्र तात्पर्यम् । निपातातिरिक्तेत्यत्र निपातपदस्याव्ययमात्रपरत्वात् । अत एवाव्ययनिपातातिरिक्त्यपि कैश्चित्तत्र तत्र लिख्यत एवेति इवार्थविहितवतिप्रत्ययस्य सादृश्यमात्रार्थकत्वं स्वीकुर्वता त्वयापि तदर्थस्यान्वयत्वेन मुखान्वयस्यानुमतत्वात् ॥ भेदान्वयानुपपत्तीति । तुल्यादिपदानां सादृश्यमात्रपरत्वे तस्याश्रयतया उपमेयान्वयो न स्यादित्यतस्तत्र सा. दृश्यवदर्थकत्वम् , वतिप्रत्ययार्थसादृश्यस्य तु निपातरूपनामार्थत्वेनाश्रयतया मुखादावन्वयः स्यादेवेति धर्मिपरत्वकल्पनाबीजभूतानुपपत्तिरत्र नास्तीति कुतः सादृश्यवत्वपरत्वं वतिप्रत्ययस्य, येन तावन्मात्रेण तत्र त्वदभिमता आर्थी व्यवस्था स्यादिति भावः ॥ निर्मूलेति । न हि तुल्यपदवतिप्रत्यययोरर्थवैषम्ये तदर्थविहितत्वमात्रेण आर्थीत्यत्र किंचित्प्रमाणमस्तीत्यर्थः ॥ समालम्बितेति । तुल्यार्थे विहितस्य वतेस्तत्समानार्थकताया अनुशासनसंमतत्वादित्यर्थः । वस्तुतस्तु त्वत्पक्षे तुल्यार्थवतिप्रत्यययोगे आर्थीति न संभवति, तस्य धर्ममात्रपरत्वात् , धयंशपरत्वे च गौरवात् । अत एव च ‘वद्वा यथा तथैवैवं साम्ये' इत्यमरः । वदिति । वतिप्रत्ययमात्रस्य ग्रहणम् । अविशेषादिवार्थतुल्यार्थे विशेषानादरणात् । रायमुकुटादौ ववेति पाठोपन्यासेऽप्यस्य क्षीरस्वाम्याद्यभियुक्तसंमतत्वात् ॥ यत्तु 'ईदूदे द्विवचनं प्रगृह्यम्' इति सूत्रे शब्दकौस्तुभे मनोरमायां च भट्टोजिदीक्षितैरुक्तम्-'प्रातिपदिकप्रक्रमे तद्धितस्य वतेरनुगुणत्वात्' इति, तदुपेक्ष्यम् । यथादिशब्दानामपि तद्धितत्वाविशेषादनुपादानापत्तेः । अव्ययत्वस्य च तावताप्यविशेषात् । एतावांस्तु विशेषः थालप्रत्ययस्य प्रकृतिविशेषनियतत्वेन यथा तथेति सप्रकृतिकस्यैवोपादानम् , वतेस्तु प्रकृतिविशेषनियमाभावाकेवलस्यैव तदिति । अत एवाख्यातवादशिरोमणिविवरणे-'धात्वर्थप्रातिपदिकार्थयोः साक्षाढ़ेदान्वयो नास्तीति तत्तत्कार्यकारणाभावविचारावसरे 'अत्र प्रातिपदिकमव्ययातिरिक्तत्वेन विशेष्यम्' इति प्रक्रम्य अत एव ज्ञानवदिच्छेत्यादावपि वत्यर्थस्य धात्वर्थेऽनुयोगिप्रतियोगितया साक्षादन्वयो नानुपपन्नः' इति मथुरानाथभट्टाचार्यैरभिहितम् । इह हि ज्ञानेन तुल्येति तुल्यार्थ एव वतिरिति तदर्थस्य प्रतियोगित्वादिना