________________
७७
अलंकारकौस्तुभः । र्ववत्सनः' इति सूत्रे पूर्वस्मादिवेति भाष्यं पञ्चम्यन्ताद्वतिविधानाभावेनानुपपन्नमाशङ्कय कैयटेनोक्तम्-'तुल्यार्थे विहिता तृतीया सर्वविभक्त्यर्थानन्तर्भावयतीति पञ्चम्यर्थस्यार्थग्रहणमुपपन्नमेव । यथा ब्राह्मणवद्वैश्यादधीते ब्राह्मणादिव वैश्यादधीत इत्यर्थः । वैश्यापादानकस्याध्ययनस्य ब्राह्मणापादानकाध्ययनमुपमानमिति तत्र च ब्राह्मणशब्दो वर्तते । तेन ब्राह्मणेन तुल्यं वैश्यादधीत इति तृतीयात्ताद्वति, एवमिहापि पूर्ववत्' इति ॥ अथ वतिप्रत्ययप्रकृत्यर्थस्योपमानत्वनियमाञ्चन्द्रवृत्तित्वमेवोपमानं स्यादिति चेन्न ॥ प्रकृतिवाच्यस्यैव तथात्वात् ॥ अन्यथा चन्द्रादेरप्युपमानत्वापत्तेः । न चैवं 'ब्राह्मणाध्ययनमुपमानम्' इति ग्रन्थविरोधोऽध्ययनस्य लक्ष्यत्वादिति वाच्यम् , भावानवबोधात् । प्रत्ययोत्पत्तिदशायां यदर्थबोधकत्वम् , तस्योपमानत्वनियमात् । न चैवमपि वृत्तित्वस्य धर्मान्वयानुपपत्तिः प्रकृत्यर्थत्वाभावादिति वाच्यम् , 'प्रत्ययानां प्रकृत्यान्वितखार्थबोधकत्वम्' इति नियमेन शक्यलक्ष्यसाधारणप्रकृत्यर्थोपादानात् । अन्यथा 'गङ्गायां घोषः' इत्यादौ तीरादेः सप्तम्यर्थाद्यन्वयो न स्यात् । तस्मात्-तुल्यार्थे वतिविधानात्तदर्थ एव तच्छक्तिः —इति सिद्धम् ॥ यत्तु–'ब्राह्मणवत् वृषलवत् ब्राह्मणा इव वृषला इव' इति निरुक्ते दृश्यते, तत्फलितार्थकथनमात्रं प्रथमान्ताद्वतिविधानाभावात् ॥ किं च तुल्यादिपदानां सादृश्यमात्रार्थत्वे नामार्थत्वाभावाद्भेदान्वयानुपपत्तिरूपबाधकाभावेन त्वन्मतेऽपि तत्र पञ्चम्यन्तात्तदनुशासनविरहात् । नन्वेवं पञ्चम्यन्तसामानाधिकरण्यमनुपपन्नं स्यादत आह-तृतीयेति ॥ अन्तर्भावयतीति ॥ तत्तद्विभक्त्यर्थे प्रकृतेर्लक्षणास्वीकारादित्यर्थः । ननु ब्राह्मणापादानकाध्ययनस्य कुतो लाभः इत्याशङ्कयाभिप्रायं विशदयतितत्र चेति । ब्राह्मणापादानकाध्ययन इत्यर्थः ॥ वर्तत इति । ब्राह्मणपदस्य स्वार्थापादानकाध्ययने लक्षणया तत्परत्वादिति कैयटस्यार्थः । ननु तुल्यार्थविहितवतिप्रयोगेऽपि श्रौती स्यात् , तत्रापि निरुक्तादौ इवपदेन विवरणदर्शनादिति भ्रान्ताशङ्कां प्रसङ्गानिराकरोति-यत्त्विति ।प्रथमान्तादिति । षष्ठीसप्तम्योश्चात्रानुपपत्त्या तादृशवतेरनङ्गीकारात् इवार्थकवति प्रत्यये श्रौतत्वे इष्टापत्तेरिति भावः । एतत्पक्षे तुल्यार्थकवतिप्रयोगे श्रौतत्वमापादयता परेण सादृश्यार्थकपदप्रयोगे श्रौती, सदृशार्थकपदप्रयोगे त्वार्थीति स्वोक्ता व्यवस्था निर्दोषेत्यभिमतम् ॥अतः खपक्षे दोषं परिहृत्य परपक्षेऽत्र तमुद्भावयति-किं चेति। नामार्थत्वाभावादिति ॥तद्धितान्तस्य नामत्वेऽपि तद्धितमात्रस्य नामत्वाभा