________________
काव्यमाला।
त्युक्तम् । वतिप्रत्ययार्थे तु वृत्तित्वादौ चन्द्रादेर्भेदान्वयस्योपपन्नत्वेन तत्र तेषामेव शक्तिकल्पनात् । तत्र वृत्तित्वं भेदो धर्मश्च वत्यर्थः । पूर्ववदेवान्वये 'चन्द्रान्योन्याभावसमानाधिकरणचन्द्रवृत्तिधर्मवन्मुखम्' इत्येव बोधः॥ न चेष्टापत्तिः । तत्रार्थी उपमेति सकलग्रन्थविरोधापत्तेरिति चेत् । उच्यते । 'तेन तुल्यम्' इति तुल्यार्थे वतिविधानम् ॥ तथा च-यावदेव तुल्यपदेन बोधयितुं शक्यते तावदेव वतिनाप्यानुशासनिकातिरिक्तार्थबोधकत्वे सर्वत्राव्यवस्थापत्तेः ॥ एवं च तत्रापि चन्द्रपदस्य तद्वत्तित्वे लक्षणा । उक्तरीत्यानुशासनसंमतत्वात् ॥ अतो नानुपपत्तिलेशोऽपि ॥ अत एव 'पूवैषम्यमिति भावः ॥ उपपन्नत्वेनेति । प्रकृत्यर्थस्य प्रत्ययार्थे भेदान्वयव्युत्पत्तेः ॥ ननु लक्षणापेक्षया वृत्तित्वस्य वतिप्रत्ययार्थत्वकल्पनमेव युक्तम् न चात्र श्रौतत्वापत्तिरेव बाधिका, प्रकारान्तरेण श्रौतत्वादिव्यवस्थाया एव तावता कर्तुमुचितत्वात् । वकल्पितप्रयोजनानुरोधमात्रेण तदाश्रयणस्याशक्यत्वादित्यत आह-उक्तरीत्येति ॥ संमतत्वादिति । यद्यपि वतिप्रत्ययविधायकशास्त्रस्य प्रकृतेस्तद्वत्तित्वे लक्षणेत्यत्र शाब्दसंमतिरायाति, तथापि तुल्यार्थस्य वृत्तित्वातिरिक्तस्यैव प्रागेव व्यवस्थापितत्वात् । तदर्थस्यैव ततो लाभेन वृत्तित्वस्य तदर्थत्वकल्पनायां सूत्रविरोधापत्तेरर्थतस्तत्संमतिरायातीति भावः ॥ वत्यादीनां सदृशार्थकतया सादृश्यमानार्थकत्वं नास्तीत्यार्थीति त्वदुक्तव्यवस्थायामपि प्रकृते दूषणस्याने मूल एव वाच्यत्वात् ॥ वतिप्रत्ययप्रकृत्यंशे लक्षणापि प्रामाणिकीति लक्षणांशे संमतिं दर्शयति-अत एवेति । यद्वा आनुशासनिक एवार्थे शक्तिः कल्प्यते, तदन्यत्र प्रकृतेरेव लक्षणेत्यत्र संमतिमाह-अत एवेति । एवं च यत्र स्वतन्त्रप्रमाणतया वाचनिकत्वेनापि समर्थयितुं शक्यस्य सूत्रकारप्रयोगस्यापि सूत्रानुरोधेन लक्षणयैव समर्थनम्, तत्र का कथा परेषामिति भावः । यद्यपि भाष्ये पूर्वस्मादिवेति कण्ठतो नोक्तं तथापि पञ्चम्यन्तसन्शब्दसमभिव्याहारात् वतिप्रत्ययप्रकृतिसमर्पकपूर्वशब्दस्य पञ्चम्यन्तत्वं स्पष्टमेव । 'किमिदं पूर्वग्रहणं सनपेक्षं प्राक् सनो येभ्य आत्मनेपदमुक्तं तेभ्यः सन्नन्तेभ्योऽपि भवति' इति भाष्येऽपि येभ्यः इति पञ्चम्यन्तेन तदर्थविवरणाद्भाष्येऽपि पञ्चम्यन्तत्वं व्याख्यातमित्याशङ्कायां उक्तकैयटभन्थावतारादर्थगत्या परिकल्पितभाष्यवाक्यस्य पूर्वस्मादिवेत्यनुवाद इति ध्येयम् । तुल्यार्थे इत्यादिमूलोपन्यस्तकैयटग्रन्थादव्यवहितपूर्वमेव हि कैयटः प्राह–'पक्षद्वयेऽपि 'तेन तुल्यम्' इति तृतीयान्ताद्वतिः न तु पञ्चम्यन्तात् लक्षणाभावात्' इति ॥ पक्षद्वयेऽपीति । पूर्वपदस्य ससंबन्धिकत्वात् पूर्वत्वं सन्प्रत्ययापेक्षया योगापेक्षया वेति भाष्योक्ते रित्यर्थः ॥ पञ्चम्यन्तादपि वतिः कुतो न स्यादत आह-लक्षणेति । तृतीयान्तादेव वतेविधानेन
१. 'मित्यत्र' क.