________________
अलंकारकौस्तुभः ।
दीक्षितास्तु - सादृश्यमुख्यविशेष्यकज्ञानजनकपदप्रयोगे श्रौत्यन्यत्रार्थीत्याहुः ॥
७५
इवादिभिः सादृश्यमनुयोगित्वसंबन्धेन बोध्यते । तुल्यादिभिस्तु सहशाभेदेनेति विभाग इत्यन्ये । तुल्यादिपदेष्वपि प्राप्ताप्राप्तविवेकेन सादृश्यस्यैव विधेयत्वान्नेदं सम्यगित्यपरे ॥
अथ धर्मोपस्थापकपदस्योभयत्र सादृश्यसंबन्धबोधकत्वे श्रौतीति पक्षे तुल्यार्थकवति प्रत्यययोगेऽपि श्रौती स्यात् । तथाहि — तुल्यादिपदोपादाने वृत्तित्वादीनां नामार्थत्वेन तत्र चन्द्रादेर्भेदान्वयानुपपत्त्या चन्द्रवृत्तित्वादिकं चन्द्रेणेत्यादिपदानामर्थ इत्युक्तत्वात्तत्र चन्द्रवृत्तित्वादिकं तुल्यपदार्थो नेत्यादौ चन्द्रे सादृश्यप्रतियोगित्वरूपोपमानत्वस्य मुखे च तदनुयोगित्वरूपोपमेयत्वस्य नियमतः प्रतीतेः । तथा च यत्र यच्छब्दबोध्यसादृश्यविशेषणतापन्नपदार्थस्य नियमत उपमानत्वं तत्र श्रौती । तदन्यत्रार्थीति भावः । तुल्यार्थकवतिप्रत्यय प्रकृत्यर्थ स्योपमानत्वप्रतीतिनियमात्तत्रापि उपमायाः श्रौतत्वापत्तिरिति । एतन्मतेऽपरितोषमुद्भावयंस्तदपहाय चित्रमीमांसामतमाह - दीक्षितास्त्विति । सादृश्यमुख्येति । यद्यपि पदान्तरसमभिहारे इवादिपदानामपि सादृश्यमुख्यविशेष्यक (ता) ज्ञानजनकत्वमसिद्धम् । सादृश्यस्य तत्राश्रयत्वसंबन्धेन मुखादिविशेषणतापन्नत्वेन मुख्यविशेष्यत्वाभावात् । तथापि येषां सादृश्यमात्रे शक्तिस्तत्र श्रौती, येषां तु तद्वति तत्रार्थी भावः । वक्ष्यमा - णयुक्त्या वतिप्रत्ययस्यापि सादृश्यमात्रशक्ततया सादृश्यमुख्यविशेष्यकज्ञानजनकत्वमस्तीति तत्रापि श्रौतत्वं स्यात् एवं (च) वतिप्रत्ययेनापि सादृश्यमनुयोगित्वेनैव बोध्यते, न तु सदृशाभेदेनेति श्रौतत्वं स्यादिति एकेनैवापरितोषेण दीक्षितपदस्यान्यपदस्य चोपादानम् ॥ अनुयोगित्वेति । चन्द्र इवेत्यादौ चन्द्रप्रतियोगिकसादृश्याश्रय इति बोधात् । सदृशाभेदेति । चन्द्रतुल्यमित्यादौ चन्द्रसादृश्यवदभिन्नमिति बोधोदयात् । तथा चैकत्र सादृश्यं विधेयम्, परत्र तु सदृशाभेद इति विधेयभेदादेव वैषम्यं इत्येषामाशयः ॥ प्राप्ताप्राप्तेति । न हि यावद्वाक्यार्थे भासते, तावत्येव तात्पर्य वाक्यभेदादिप्रसङ्गात् । अपित्वप्राप्त एव तदेव च विधेयम् । तदाहु: - ' यत्परः शब्दः स शब्दार्थ:' इति । अत एव 'दध्ना जुहोति' इत्यादौ दधिविशिष्टहोमादेः प्रतीतावपि धात्वर्थस्याग्निहोत्रं जुहोतीत्यादिनैव प्राप्तत्वात् । दध्यादिरूपं द्रव्यमेव विधेयतया पर्यवस्यतीति गुणविधित्वव्यवहारो मीमांसकानाम् ॥ एवमत्रापि सादृश्याभिन इति प्रतीतावपि धर्म्यंशे न तात्पर्यम्, किंतु सादृश्यमात्र इति नैवमिवादितुल्यादीनां
१. 'नाहृत्य' ख. २. 'संबन्धबोधकत्वेन' क.
१. 'सदृशो' ख.