________________
७४
काव्यमाला ।
त्वात् । चन्द्रस्य तुला' इत्यादौ तु तुलाशब्दस्येव शब्दवत्सादृश्यमात्रार्थत्वेऽपि तदर्थे भेदादौ प्रतियोगित्वादिसंबन्धेन चन्द्रादेरन्वयासंभवात्तत्र षष्ठीप्रयोग इति विशेषः ॥ तत्र श्रौतार्थत्वविशेषास्तु धर्मलुप्तावसरे वक्ष्यन्ते इति ॥ 'चन्द्रो मुखं च तुल्यम्' इत्यादौ तु तुल्यपदार्थस्य चशब्दवाच्येतरेतरयोगबलेन चन्द्रमुखयोर्युगपदन्वयावगमात् 'चन्द्रप्रतियोगिकान्योन्याभावसमानाधिकरणतद्वत्तिधर्मवन्मुखम्' 'मुखप्रतियोगिकान्योन्याभावसमानाधिकरणतद्वत्तिधर्मवांश्चन्द्रः' इति बोधः । अत एव 'मुखं चन्द्रसदृशं न वा' 'चन्द्रो मुखसदृशो न वा' इति संदेहद्वयस्यापि ततो निवृत्तिः। तुल्यपदार्थकदेशस्य सादृश्यस्य चशब्दबलेनोभयत्रान्वयेऽपि सादृश्यवाचकपदस्योभयत्र धर्मान्वयविरहः स्पष्ट एव ॥ तस्माद्यत्र धर्मोपस्थापकपदस्यैवोभयत्र संबन्धबोधकत्वम् , तत्र श्रौती-अन्यत्रार्थीति सिद्धम् । उपमानादिवृत्तित्वविशिष्टनियतशाब्दबोधविषयत्वं श्रौतीत्वम् , इवादौ तथा नियमात् । तुल्यादौ तु चन्द्रेण तुल्यमित्यत्र तथात्वेऽपि चन्द्रो मुखं च तुल्यमित्यत्र प्रकृतित्वादिनैवोपमानोपमेयभावप्रतीतेविलम्बादिति प्रकाशसिद्धान्तः ॥ न स्वातन्त्र्येण प्रमाणं सूत्रवार्तिककारयोश्चैतादृशप्रयोगाभावस्तथापि भाष्यप्रयोगस्य खातन्त्र्येण प्रयोगान्तराणां च तात्पर्यग्राहकत्वेनोपयोगादादीत्युक्तम् ॥ यद्वा निरुक्तकारादिपरमादिपदम् इति तत्वम् ॥ ननु शस्त्रीव श्यामा' इत्युक्तौ महाभाष्यप्रयोगो नोपमानस्योपमेयसमानविभक्तिकत्वे प्रमाणं भवितुमर्हति, पक्षद्वयसाधारण्यात् । प्रथमोपस्थितत्वेन प्रथमेति वादिनोऽपि तस्य विरोधाभावात् ॥ सत्यम् । विभक्त्यन्तरान्तानां तदीयानां प्रयोगान्तराणामेवात्र प्रमाणत्वेनाभिमतत्वात् । किंच 'उपमानादाचारे। इति सूत्रे 'अधिकरणाच्च' इति वार्तिकमत्र प्रमाणम् । तद्धि प्रासादीयति कुट्यामित्युपमेये सप्तमीश्रवणादुपमानमपि सप्तम्यन्तमिति कर्मविवक्षायामेतत्प्रयोगासंभवादारभ्यत इति कैयटेन प्रतिपादितम् ॥ किंच 'तत्र तस्यैव' इति सूत्रमप्यत्र मानम् , तच्छब्देन सप्तम्यन्तेन षष्ठयन्तेन चोपमानपरामर्षानुपमेयेति तत्र सप्तमीषष्ठीप्रयोगादित्यलं बहुना ॥ अन्वयासंभवादिति । तुलापदवाच्यसादृश्यस्य निपातातिरिक्तनामार्थत्वानेदान्वयाभावादित्यर्थः । चशब्दबलेति । तथा च चशब्दस्य युगपदनेकार्यान्वयित्वरूपसमुच्चयार्थकतया तुल्यपदार्थधर्मस्योभयान्वयो न तु तुल्यपदमहिनेति न श्रौतत्वापत्तिरित्यर्थः । खोक्तं श्रौतार्थत्वविभागमुपसंहरति-तस्मादिति । उपमानादीति । प्रतियोगित्वानुयोगित्वेत्यर्थः । इवादाविति । चन्द्र इव मुखमि
१ स्थितम्' क.