________________
अलंकारकौस्तुभः ।
७३ तल्लिङ्गत्वे 'उद्भूतं रक्तं दधता दण्डेन विशिष्टः' इत्यादावुद्भूतादेरपि तृतीयापत्तिः 'नामार्थान्तराविशेषणीभूत-' इति विशेषणे विशेषणस्य देयत्वात् । न च-चन्द्रादेरपि प्रतियोगित्वेनेवार्थभेदाद्यन्वयात्कथं व्यावृत्तिःइति वाच्यम् , 'निपातातिरिक्तनामार्थान्तर-' इति वाच्यत्वात् । एवं च 'चन्द्रेण तुल्यं मुखं पश्यामि' इत्यादावपि नातिप्रसङ्गः-इति ॥ नन्वेवमपि 'अव्ययविशेषणानां नपुंसकत्वं भवति' इत्यनुशासनादिवार्थविशेषणस्य चन्द्रादेः क्लीबत्वापत्तिर्दुर्वारा-इति चेत् , मैवम् । 'शस्त्रीव श्यामा शस्त्रीश्यामा' 'मृगीव चपला मृगचपला' इत्यादिभाष्यकारादिप्रयोगसामर्थ्यादुपमानवृत्तिलिङ्गसिद्धेः । अत एव 'पार्थ एव धनुर्धरः' इत्यादावपि नानुपपत्तिः, अनियतलिङ्गविषयताया उक्तानुशासनस्य भाष्यादिसंमतविशेष्यलिङ्गतायां विशेषणत्वमेव प्रयोजकं न तु साक्षाद्विशेषणत्वम् । गौरवादिति भावः ॥ प्रामाणिकगौरवाभिप्रायेण शङ्कते-न चेति । नामार्थेति । उद्भूतादेस्तु रक्तादिरूपनामार्थान्तरविशेषणीभूतत्वान्न दोष इति भावः । ननु चन्द्र ईवेत्यत्रापि इवादिरूपनामार्थान्तरविशेषणीभूतत्वाच्चन्द्रादे: साम्यमेवेत्याह-न चेति ॥ निपातेति । तथा च निपातातिरिक्तनामार्थान्तराविशेषणीभूतत्वं वाच्यम् । ततश्च चन्द्रादेर्नामार्थान्तरविशेषणत्वाभावविरहेऽपि निपातातिरिक्तनामार्थान्तराविशेषणत्वमस्त्येवेति भावः ॥ चन्द्रणेति । तत्र चन्द्रस्य निपातातिरिक्ततुल्यरूपनामार्थविशेषणत्वान तथेति भावः । यद्यप्येतादृशं नियामकं न प्रमाणसिद्धम् , तथापि वक्ष्यमाणप्रमाणानुगृहीतत्वात्कल्पनाया इदमुक्तम् ॥ ननु निपातातिरिक्तनामार्थान्तराविशेषणीभूतविशेषणस्य विशेष्यविभक्तिकत्वकल्पनापेक्षया साक्षाद्विशेषणत्वस्य विशेष्यसमानविभक्तिकत्वकल्पने लाघवमिति चेत्, सत्यम् । अत एवापरितोषाद्भाष्यप्रयोगादिरूपमेव प्रकृते प्रमाणं वक्ष्यतीत्यदोषः । शस्त्रीव श्यामेति । 'उपमानानि सामान्यवचनैः' इति सूत्रे भाष्यकृतामयं प्रयोगः । तथा च इवार्थे विशेषणत्वापन्नाया अपि शख्या नपुंसकत्वादर्शनात् न क्लीबत्वमित्यर्थः । अवान्तरसमाधिमुक्त्वा वास्तवसमाधिमाह-अनियतेति । नियतलिङ्गानां लिङ्गानपेक्षतया तत्सापेक्षविशेष्यनिघ्नपरताया एव वचनस्य युक्तत्वात् । 'आकासित. विधानं ज्यायः' इति न्यायात् । अत एवादिः पचतीत्यादौ आदिशब्दस्य 'पुंस्यादिः पूर्वपौरस्त्य-' इत्यादिकोशे नियतपुंलिङ्गतादर्शनात् क्रियाविशेषणत्वेऽपि न क्लीबत्वमित्यभियुक्तानां सिद्धान्त इत्यर्थः । उपमानस्योपमेयविभक्तिकत्वे पूर्व प्रमाणानुपन्यासात्सिहावलोकितन्यायेनाह-भाष्यादीति । यद्यपि भाष्यकारादन्येषां कवीनां प्रयोगो
१. विशेषणत्वादुक्ता' क; 'विषयत्वात्' ख. २. 'संभवतात्' क; ख-पुस्तके तु नास्त्येव. १. 'मिव' ख.
१०