________________
७२
काव्यमाला। श्यामि' इत्यादावुपमानपदोत्तरविभक्तिश्च विशेष्यसमानलिङ्गत्वस्यौत्सर्गिकतया साधुत्वार्था । नच-प्रथमोपस्थिततया साधुत्वार्थ प्रथमैव स्यात्इति वाच्यम् , विशेषणातिरिक्तस्थले तथात्वात् । नच-चन्द्रस्य मुखा. न्वयाभावान्न तथा, विशेषणविशेष्ययोरभेदान्वयार्थमेवैकविभक्तरुपयोगात्इति वाच्यम्, विशेषणविशेष्ययोः समानलिङ्गत्वमेव ह्यौत्सर्गिकम् , तत्र च साक्षादन्वयोऽभेदेनेत्यन्यदेतत् । नच-परम्परया विशेषणस्यापि तेश्च समभिव्याहारेणैव बोधकतया तस्या अपि श्रुतित्वविरहापत्तेः । पदान्तरसमभिव्याहारापेक्षणेऽपि विवक्षितार्थबोधकत्वसामर्थ्य तत्र द्वितीयामात्रस्यास्तीति चेत् , तीहापि चन्द्रादिपदसापेक्षत्वेऽपि उभयवृत्तित्वबोध इवपदेन निर्वहति ॥ तुल्यादिपदानां तूभयभयवृत्तित्वबोधार्थ पदान्तरापेक्षाप्यस्तीत्यधिकस्यापेक्षणीयत्वात् वैषम्यमिति आये श्रौती द्वितीये त्वार्थीति कुतोऽत्र प्रद्वेषः ॥ न च चन्द्रपदसापेक्षत्वं इवादौ तुल्यादौ च समानमेवेति वाच्यम् । तथापि तत्र प्रत्ययार्थस्य वृत्तित्वस्याधिकस्यापेक्षणात् चन्द्र ईवेत्यादौ च विभक्तेः साधुत्वमात्रार्थतया तदर्थाभावे तदर्थस्यानपेक्षणीयत्वात् । न च स्यादप्येवं यदि चन्द्रभिन्नवृत्तित्वे सति चन्द्रवृत्तिधर्मः सादृश्यखरूप: स्यात् , तद्भिन्नत्वे सति तद्गतधर्मवत्वस्यैव तत्सरूपत्वादिति वाच्यम् , तस्यापि फलतोविवक्षितविवेकेन तद्भिन्नवृत्तितद्वत्तिधर्म एव पर्यवसानस्य प्रागेव व्यवस्थापितत्वात् । 'अनेकवृत्तित्वं सा. सादृश्यम्' इति मूलग्रन्थव्याख्यानावसरे ‘अनेकवृत्तिसामान्यमेव सादृश्यम्' इति लीलावत्युपाये वर्द्धमानोपाध्यायः कण्ठत एवाभिधानाच्च ॥ अनेकवृत्तित्वं हि नैकजातीयानेकवृत्तित्वमात्रम्, किंतु भिन्नजातीयानेकवृत्तित्वम् । तच्च चन्द्रादिभिन्नवृत्तित्वे सति चन्द्रादिवृत्तित्वमेव पर्यवस्यति । अत उक्तसादृश्यस्य इवादिपदैस्तुल्यादिपदापे. क्षया अन्यपदसापेक्षत्वेन प्रतिपादनम् । तुल्यादिपदैस्तु इवा दिपदापेक्षयाधिकपदसापेक्ष. त्वेनेति यथोक्तरीत्यैव श्रौतत्वव्यवस्थापनं युक्त मिति तदेतत्सर्व मनसि कृत्वाह-भिनपदेति ॥ औत्सर्गिकेति । विभक्त्यन्तरकल्पने नियामकाभावेन प्रधानभूतविशेध्यविभक्तेरेव तत्र प्रयोगात् । अत एव 'कटं करोतीति भीष्ममुदाहरं दर्शनीयम्' इत्यादौ कर्मत्वस्य कटपदोत्तरद्वितीययैव प्रत्यायनात्कटसामानाधिकरण्यादेव भीष्मादिपदादपि द्वितीयेति अनभिहितसूत्रे महाभाष्ये स्पष्टमित्यर्थः । उक्ताभिप्रायमविद्वान् शङ्कते-न चेति । विभक्त्यन्तरकल्पने विनिगमकाभावो हि त्वया विशिष्यविभक्तिकत्वे मूल्ययुक्तः। अस्ति च विनिगमकं प्रथमात्यागे कारणाभावादिति सर्वत्रापि प्रथमैवास्तीति भावः । तदपेक्षया विशेष्यविभक्तरुपस्थितिनिबन्धनानियामकात्प्राबल्यमित्यभिप्रायं प्रकटयति-विशेषणेति । मुखान्वयाभावादिति । साक्षादिति शेषः ॥ न तथेति । न विशेष्यसमानविभक्तिकत्वमित्यर्थः ॥ अन्यदेतदिति । विशेषणस्य
१. 'मिव' ख. २. 'अल्प' ख.