________________
अलंकारकौस्तुभः ।
७१
स्यात् । अत एव वृत्तित्वस्यापि तुल्यपदार्थकल्पनया न निस्तारः । नामार्थतासाम्यात् । ततश्च चन्द्रप्रतियोगिकान्योन्याभावसमानाधिकरणत्वस्य च - न्द्रवृत्तित्वस्य च धर्मेऽन्वयः । तस्य चाश्रये तदर्थान्तरे । तथा च ' चन्द्रान्योन्याभावसमानाधिकरणचन्द्रवृत्तिधर्माश्रयाभिन्नवन्मुखम्' इति धीः । अत्रोपमेयवृत्तित्वं धर्मोपस्थापकपदस्य, उपमानवृत्तित्वं च तृतीयाया अर्थः । अत उभयं धर्मवाचकपदार्थो न भवतीत्यत आर्थी उपमेत्युच्यते । न च— उभयत्र बोधसाम्यात्कथमयं विभागः —— इति वाच्यम्, 'इवादौ सादृश्ये शक्तिः, तुल्यादौ लक्षणा' इत्यत्रापि 'कथमेवम्' इति तुल्यत्वात् । प्रत्युत भिन्नपदप्रतिपाद्यत्वेनास्मत्पक्ष एव विशेषात् । ' चन्द्रमिव मुखं प
पदार्थ एव कल्प्यतां कुतस्तस्य तृतीयार्थत्वं वैषम्यस्यानर्हत्वादित्यत आह- अत एवेति । नामार्थयोरभेदान्वयापत्तेरेवेत्यर्थः । तथा च तत्र चन्द्रपदार्थस्य भेदान्वयो न स्यादिति तस्य तृतीयार्थत्वकल्पनमिति प्रकृत्यर्थचन्द्रस्य प्रत्ययार्थवृत्तित्वान्वय उपपन्न इत्यर्थः । वृत्तित्वस्य धर्मान्वयो न स्यादित्यर्थभ्रमस्तु न कार्यः । वृत्तिमत एव तुल्यार्थ - त्वकल्पनया तादात्म्यान्वयोपपत्तेः । अत एवाग्रे वृत्तित्वादीनां नामार्थत्वेन तत्र चन्द्रादेर्भेदान्वयानुपपत्तिरिति स्वयमेव वक्ष्यति । इदमुपलक्षणम् - भेदसमानाधिकरणमात्रस्य तुल्यपदार्थत्वकल्पनेऽपि नामार्थस्य चन्द्रस्य प्रतियोगिता संबन्धेन भेदान्वयो न स्यादिति चन्द्रप्रतियोगिकत्वविशिष्टभेद एव तुल्यपदार्थ उक्त इत्यपि बोध्यम् । प्रकृतमाह — अत्रेति । धर्मोपस्थापकेति । तुल्यपदस्य चन्द्रभेदसमानाधिकरणत्वमात्र बोधकतया उपमेयवृत्तित्वमात्रं तेन धर्मस्य बोध्यते । उपमानवृत्तित्वं तु चन्द्रेणेति पदेन अत उपमानोपमेयोभयवृत्तित्वं धर्मवाचकतुल्यपदस्यार्थो न भवतीति इवपदादत्र वैषम्यमिति फलितार्थः ॥ इवादाविति । तेषां सादृश्यार्थकतया धर्ममात्रपरत्वात् ॥ तुल्यादाविति । तेषां सादृश्यवत्परतया विशेषणीभूतसादृश्ये लक्षणाङ्गीकारात् । तथा च बोधवैषम्यं श्रौतत्वार्थत्वयोर्न व्यवस्थापकं तन्मतेऽपि वृत्तिभेदस्वीकारेऽपि उभयत्रापि बोधसाम्येन तद्यवस्थानुपपत्तेरिति भावः । तथापि त्वत्पक्षे किं विनिगमकमित्यत आहप्रत्युतेति । सादृश्यं तावत्प्रतियोग्यनु योग्युभयनिरूप्यमिति सर्वसंप्रतिपन्नम् । तत्र च फलतो धर्मस्योभयनिष्ठत्वं भासते । तच्च यत्र धर्मवाचकपदादेव निर्वहति सा श्रौती, यत्र तु पदद्वयेन सा आर्थी । पदद्वयसमभिव्याहारगम्यत्वादित्येव विवेकः साधीयान् । अत एव श्रीहीनवहन्तीत्यादौ द्वितीयया निरपेक्षयैव व्रीहीणां क्रियाजन्यफलशालित्वबोधनात्तस्याः श्रुतित्वमिति मीमांसकसंप्रदायः । यदाह – 'अभिधातुं पदेऽन्यस्मिन् निरपेक्षो रवः श्रुतिः' इति ॥ न चात्रेवशब्दस्य निरपेक्षत्वेन सादृश्यबोधकत्वमसिद्धम् । चन्द्रादिपदसमभिव्याहारेणैव तद्बोधकत्वादिति वाच्यम्, द्वितीयादेरपि क्रियायाः प्रकृ
,