________________
काव्यमाला ।
भैदान्वयस्याव्युत्पत्तेः । तदेकदेशस्य सादृश्यस्य च चन्द्रप्रतियोगिकान्योन्याभावसामानाधिकरण्यं धर्मश्वार्थः, आश्रयत्वं प्रत्ययांशार्थः, तृतीयार्थश्च वृत्तित्वम् , 'तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्' इति सूत्रात् । अत एव 'चन्द्र इव मुखं भाति' 'चन्द्रमिव मुखं पश्यामि' 'चन्द्रेणेव मुखेन कृतम्' इत्यादावुपमानस्योपमेयसमानविभक्तिकत्वनियमेऽपि 'चन्द्रेण तुल्यं मुखं भाति, चन्द्रेण तुल्यं मुखं पश्यामि' इत्यादौ न मुखवृत्तिविभक्तिनियमः । अन्यथा च धर्ममुखयोर्नामार्थतयाश्रयत्वसंबन्धेन धर्मान्वयो न त्यर्थः। इवार्थसादृश्ये तु निपातातिरिक्तनामार्थत्वाभावेन भेदान्वयसंभवान्न धर्मिपरत्वकल्पनमिति [विशेषः । तदेकदेशेति । तदर्थंकदेशस्य सादृश्यस्येत्यर्थः । खसामानाधिकरण्यं खरूपमिति शेषः । यद्वा सादृश्यस्य तदर्थकतुल्य(ला)शब्दस्येत्यर्थः । अन्यथा पदबोध्यसादृश्यस्य सामानाधिकरण्यमर्थ इत्यन्वयानुपपत्तेः । तुल्यशब्दस्तावत् 'नौवयोधर्मविषमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु' इति सू. त्रेण तुलया समितमित्यर्थे यत्प्रत्ययान्तत्वेन व्युत्पादितः । तच्च यद्यपि व्युत्पत्तिमात्रमिति सिद्धान्तस्तथापि चन्द्रभेदसामानाधिकरण्यं आश्रयश्च तुल्यपदार्थ इत्यत्रैव तात्पर्यार्थः । तुल्याथैरिति । तुलोपमाशब्दव्यतिरिक्ततुल्यार्थकपदयोगे उपमानार्थकपदात्तृतीया विकल्पेन भवतीति सूत्रार्थः । यद्यपि तृतीयाविधानमात्रेण 'वृत्तित्वं तृतीयार्थः' इत्यत्र सूत्रसंमति याति, तथापि तत्रानुगतो विभत्यर्थोऽवश्यं कल्प्य इत्यपेक्षावशेन वृत्तित्वमेव तृतीयार्थः कल्पत इत्यभिप्रायः । इदमेवाह-अत एवेति । इवादिस्थले उपमानोत्तरविभक्तेः साधुत्वमात्रार्थताया वक्ष्यमाणत्वात्तत्रोपमेयविभक्तिरेव । अत्र तु नियतार्थपरतयोपमेयलिङ्ग तिरस्कृत्यैकैव तृतीया विभक्तिरित्यर्थः। आश्रयस्यापि तुल्यपदार्थत्वकल्पने प्रमाणमाह-अन्यथेति। आश्रयस्य तुल्यपदार्थत्वकल्पनं विनेत्यर्थः । न स्यादिति । आश्रयत्वसंबन्धेनेति शेषः। धर्ममुखयोर्नामार्थतया आश्रयत्वादिभेदसंबन्धेनान्वयासंभवादिति भावः । आश्रयस्यापि तदर्थत्वे तु अभेदसंबन्धेन तस्य मुखान्वये धर्माश्रयाभिनं मुखमिति वक्ष्यमाणबोधः संभवतीत्यर्थः । नन्वेवमपि सामानाधिकरण्यस्य धर्मस्य च तुल्यरूपनामार्थत्वात्कथं तयोः परस्परं भेदान्वयः । एवमाश्रयत्वस्य तुल्यपदार्थत्वे आश्रयत्वाभिन्नं मुखमित्येव बोधः स्यात् । अथोभयत्र भावार्थस्याविवक्षितत्वात्तत्समानाधिकरणं आश्रयश्च तदर्थः । तेन आद्यस्य धर्म, द्वितीयस्य च मुखे अभेदान्वयः । अत एव धर्माश्रयाभिन्नं मुखमिति समनन्तरमेव वक्ष्यतीति भवदाशयः । तथापि धर्मस्य आश्रयभेदान्वयानुपपत्तिरस्त्येव न हि धर्माभिन्नाश्रयेति बोध इष्ट इति चेत्सत्यं धर्माश्रय एव तुल्यपदार्थ इत्यत्र तात्पर्यात् । अत्रैकदेशे धर्मे समानाधिकरणान्तस्य अभेदान्वय: । चन्द्रेणेत्यत्र चन्द्रस्य वृत्तित्वे तस्यापि धर्म एवान्वय इति यथोक्तबोधोपपत्तिरित्यवधेयम् । वृत्तित्वमपि तुल्य