________________
अलंकारकौस्तुभः । च काव्यादर्शविवरणकृद्भिर्मल्लिनाथादिभिरपि व्याख्यातम् । नियतवचनत्वं च स्वशक्यार्थाभिधानानियतस्वकत्वम् । तत्त्वेनानुशासनतात्पर्यविषयत्वमिति यावत् । प्राणा दारा इत्यादेश्चैकस्मिन्नपि प्रयोगेण बहुत्वाभिधानानियमात् । तेन प्राणशब्दस्य कोषादावेकवचनान्तत्वेनानुशासनेऽपि 'पुंसि भूम्यसवः प्राणाः' इति बहुवचनान्तत्वेनाप्यनुशासनमस्त्येवेति न दोषसंभवः । _ 'चन्द्रेण तुल्यं मुखम्' इत्यत्र तु तुल्यपदस्य सादृश्यवानर्थः, केवलसादृश्ये तदप्रयोगात् , 'सादृश्याभिन्नं मुखम्' इति बोधापत्तेश्च । नामार्थयो
प्रयोक्तुरशत्त्यनुनयादोषाभावादित्यर्थः ॥ ननु काव्यादर्शकारिकायां सहृदयोद्वेगाभाव इत्येव दोषत्वाभावबीजमुक्तम्, न तु त्वदुक्तो लिङ्गवचनान्तराभावस्तत्कथं त्वया खोक्तार्थे तत्संमतिर्दर्शितेत्यत आह -एवमेवेति । ततश्च बीजान्तरस्यानुपपत्तेवृद्धसंमतत्वाच्च यथोक्तमेव तद्वीज मिति भावः । ननु प्राणशब्दस्यैकवचनान्तस्यापि सर्वसंमतत्वात् 'प्राणा इव प्रियोऽयं मे' इत्यत्र त्वदुक्तौ दूषकत्वाभावो वचनान्तराभावमूलकान्यथानुपपत्तिरूपो नास्तीति कथं मूलानुमतं तदुक्तं व्याख्यानमित्यत आह-स्वशक्येति । उभयत्र खपदमेकवचनादिपरम् । नियतवचनत्वं चेत्यस्य च वचननिष्ठं नियतत्वं चेत्यर्थः। एकवचनादीनामेकत्वद्वित्वबहुत्वानि शक्यार्थाः । 'द्वयेकयोर्द्विवचनैकवचने' 'बहुषु बहुवचनम्' इत्यादिवचनात् । तदभिधाने अनियतं खं येषां तत्कत्वम् । तदेव वक्ष्यति'प्राणा हा(दा)रा' इत्यादि बहुवचनस्य बहुत्वं शक्यार्थः तद्विनापि दारा इत्यादावेकस्यामपि बहुवचनस्यैव विधानेन तत्रयस्य बहुवचनस्य तद्विधानानियतत्वमित्यर्थः । नन्वभिधानं प्रतिपादनमात्रं, ततश्च लक्षणादिना एकवचनादेरपि बहुत्वादिप्रतिपादकत्वात् , पदान्तरोत्तरस्याप्येकवचनादेरनियतत्वप्रसङ्ग इत्यत आह-तत्त्वेनेति । नन्वेवमपि न निस्तारः 'जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्' इत्याद्यनुशासनसंमततया बहुवचनस्यापि बहुत्वाभिधानानियतत्वात् ततश्च ‘सरांसीवामलं नभः' इत्यादिवचनभेदस्य दुष्टत्वाभिधानविरोधापत्तिरिति चेन्मैवं प्रकृतिविशेषपुरस्कारेण तदनुमतत्वस्य विवक्षितत्वात् । अस्ति च तथा प्राणादारादिशब्देषु 'पुंसि भूम्न्यसवः प्राणाः' इत्याद्यनुशासनदर्शनात् । जात्याख्यायामिति तु सामान्यत एव तथेति नानुपपत्तिः । एवं च यच्छब्दस्याथैक्येऽपि बहुवचनान्तत्वं विशिष्यानुशासनसंमतं तत्र वचनभेदो न दोष इत्यत्र तात्पर्य न तु तत्समानवचनान्तशब्दान्तरानुपपत्तिरपि, वक्तुरशक्तेस्तावतैवानुनयनात् । अन्यथा प्राणा इवेत्यादैरदोषत्वाभिधानानुपपत्तेरिति फलितार्थः ॥ तुल्यादिपदप्रयोगे आर्थी कथमित्याशङ्कयाह-चन्द्रेणेति । तुल्यपदस्यापि सादृश्यमात्रपरतैव कुतो न स्यादत आह–केवलेति । इवपदस्यापि केवलसादृश्ये प्रयोगाभावादाह-सादृश्याभिन्नमिति । निपातातिरिक्तनामार्थयोरभेदान्वयस्यैव व्युत्पन्नत्वादि