________________
काव्यमाला। धात्वर्थनिपातार्थयोरन्वयेऽपि निपातातिरिक्तनामार्थधात्वर्थयोरन्वयस्यादर्शनात् । अन्यथा 'तण्डुलः पचति' इत्यत्र कर्मतासंसर्गेण तण्डुलस्य पाकान्वयापत्तेः-इति चेत् , न । तादृशस्थले आह्लादकत्वादिकमिवार्थ एव, धातुस्तु तात्पर्यग्राहकमात्रमिति वाच्यत्वात् । अथैवं 'हंसीव धवलश्चन्द्रः' इत्यादेः कथं दुष्टत्वम् , उक्तभेदे लिङ्गभेदस्याप्रतिकूलत्वात्-इति चेत्, मैवम् । नहि शाब्दबोधप्रतिकूलतयैव दोषत्वम् । अतएव यत्र पुंलिङ्गेऽप्युपमेये नित्यस्त्रीलिङ्गस्योपमानस्य न पुंलिङ्गतासंभवः, यत्र चैकवचनान्तेऽप्युपमेये नित्यबहुवचनान्तस्योपमानस्य नैकवचनान्तत्वसंभवः, तत्र च लिङ्गवचनभेदेऽपि न दोषः । तदुक्तमाचार्यदण्डिना
'न लिङ्गवचने भिन्ने नै न्यूनाधिकतापि च । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥ स्त्रीव गच्छति षण्डोऽयं वक्तीयं स्त्री पुमानिव ।
प्राणा इव प्रियोऽयं मे विद्या धनमिवार्जिता ॥' इति ॥ सहृदयोद्वेगबीजं तूक्तरीत्या प्रकृतानुपयुक्तलिङ्गवचनविशेषोपादानमेव । न च तन्नियतलिङ्गवचनेषु, इति न तत्रोद्वेग इत्यर्थः । एवमेव लञ्जभक्षणमिति बोधोदयात् ॥ अन्यथेति । निपातातिरिक्तनामार्थधात्वर्थयोरपि साक्षाढ़ेदान्वयखीकारे इत्यर्थः । तण्डुल इति । न च तादृशार्थे प्रथमाया असाधुत्वान दोष इति वाच्यम् । असाधुत्वज्ञानाभावदशायां तदापत्तेः । कर्मत्वप्रकारकबोध एव तत्र द्वितीयायाः साधुत्वम् । अतः कर्मत्वसंसर्गकबोधः स्यादेवेत्यन्ये ॥ इवपदेन विशिष्यधर्मोपस्थापने रमणीयादिपदानामेव तात्पर्यग्राहकत्वमिति पूर्वोक्ताभिप्रायं विशदयति-तादृशस्थल इति ॥ इवार्थ एवेति । तथा च धात्वर्थत्वविरहान तस्य नामार्थान्वयानुपपत्तिरित्यर्थः । न चात्र आश्रयत्वस्याख्यातार्थत्वात्तदन्वितस्याह्लादकत्वस्य मुखान्वयः संभवत्येवेति किमर्थ धातोस्तात्पर्यग्राहकत्वकल्पनमिति वाच्यम् , एवमपि चन्द्रस्य वृत्तित्वसंबन्धेनालादकत्वान्वयानुपपत्तेः ॥ चन्द्रभिन्नवृत्तिचन्द्रवृत्त्याह्लादकत्वाश्रयो मुखमिति बोधासिद्धेः ॥ न च इवार्थवृत्तावेव चन्द्रादेरन्वयः, ततश्चन्द्रवृत्तित्वस्य आल्हादकत्वान्वयः निपातार्थस्य धात्वर्थान्वयव्युत्पत्तेरिति वाच्यम् । नापि शाब्दबोधप्रतिकूलतयैवोपमादोषत्वमिति नियमोऽप्यस्तीत्याह-हीनताधीति । क्वचित्सहृदयोद्वेग: क्वचिनेत्यत्र किं नियामकमत आह-सहृदयेत्यादि । न च तदिति। तत्र तादृशलिङ्गवचनान्तराभावेनान्यथानुपपत्त्या व्यधिकरणयोरपि लिङ्गवचनयोः प्रयोगे
१. 'हीनताधिकतापि' इति पाठष्टीकासंमतः.