________________
अलंकारकौस्तुभः । योभयनिष्ठताया इवपदेन प्रतिपादनात् । तत्र समानाधिकरणान्तेनोपमेयवृत्तित्वम् , वृत्त्यन्तेनोपमानवृत्तित्वमिति विवेकः । न च-चन्द्रान्यवृत्तित्वस्य ततो लाभेऽपि मुखवृत्तित्वस्याबोधात्कथमेतत्-इति वाच्यम् , उपमेयस्यापि चन्द्रान्यतया सामान्यतस्तद्वृत्तित्वलाभात् । तावतैव प्रकृतव्यवस्थोपपत्तेः । ननु साधारणधर्मप्रयोगस्थले तस्यैवेवपदेन रमणीयादिपदेन च बोधने एकस्य निराकाङ्क्षत्वादन्वयानुपपत्तिः । न च--उभाभ्यामेक एवोपस्थाप्यते-' इति वाच्यम् , तावतापि 'चन्द्र इव मुखमाह्लादयति' इत्यादावनुपपत्त्यनुद्धारात् । आह्लादकत्वस्य धात्वर्थतया नामार्थे मुख आश्रयत्वादिभेदसंबन्धेनान्वयायोगात् । धात्वर्थनामार्थयोः साक्षाढ़ेदान्वयस्याव्युत्पन्नत्वात् । न च-चैत्रेण न सुप्यते' इति भावार्थकप्रत्ययस्थले धात्वर्थस्य प्रतियोगितासंबन्धेन नार्थे 'न कलशं भक्षयेत्' इत्यादौ नार्थस्य विशेषणताविशेषसंबन्धेन भक्षणे चान्वयदर्शनान्न दोषः-इति वाच्यम् , तावता
न्द्रवृत्तित्वेन धर्मस्योपमानवृत्तित्वं चन्द्रभिन्नवृत्तित्वेन च मुखरूपोपमेयवृत्तित्वं बोध्यते, इवपदेन अत इत्यर्थः ॥ श्रौतीति । श्रुत्या शब्दशक्त्यैव उभयवृत्तित्वस्य धर्मे बोधादित्यर्थः ॥ सामान्यत इति । चन्द्रभिन्नत्वरूपेणेत्यर्थः ॥ इवपदेनेति । रमणीयादिपदप्रयोगसत्वे रमणीयत्वादिरूपेणैव धर्मस्य इवपदाद्वोध इत्युक्तत्वात् । निराकाङ्कत्वादिति । रमणीयत्वरूपेण वारद्वयमुपस्थितौ तयोः परस्परमन्वयानुपपत्तेः, एकरमणीयत्वान्वयेनैव निराकाङ्क्षतया द्वितीयस्य तस्य मुखाद्यन्वयानुपपत्तेः तत्रापि धर्मत्वेनैवोपस्थित्यभ्युपगमे तु भिन्न प्रकारकोपस्थितिसत्वे रमणीयत्वादेरभेदेन धर्मान्वयसंभवात्तादृशरमणीयत्वाभिनधर्मवदिति धीसंभवात् । एक एवेति । एकस्य तात्पर्यग्राहकत्वोपगमात् इवादेरेव रमणीयत्वादिरूपेण धर्मोपस्थापकत्वोपगमादिति भावः । तदेतदनाकलय्य प्रत्यवतिष्ठते-तावतापीति ॥ चन्द्र इव मुखं रमणीयमित्यादौ (रमणीयत्वादे रमणीयादिपदार्थत्वान्मुखादावन्वयोपपत्तावपि आह्लादयतीत्यादौ) तदसंभवादित्यर्थः ॥ ननु तत्रापि धात्वर्थस्याह्लादकत्वस्याश्रयतया मुखादावनन्वयः कुतो न स्यादत आह-धात्वर्थेति ॥ तण्डुलं पचतीत्यादौ विभक्त्यर्थकर्मत्वान्वयद्वारा नामार्थस्य तण्डुलस्य धात्वर्थपाकान्वयाङ्गीकारात् साक्षादित्युक्तम् । विभक्त्यर्थाविशेषणीभूयेत्यर्थः । स्तोकं पचतीत्यादौ नामार्थस्य स्तोकस्य तादात्म्येन पाकान्वयदर्शनात् भेदेनेत्युक्तम् । अभेदादतिरिक्तसंबन्धेनेत्यर्थः ॥ न सुप्यत इति । तत्र प्रत्ययस्यानर्थकत्वेन खापाभावस्यैव बोधात् ॥ विशेषणतेति । बलवदनिष्ठाननुबन्धित्वाभाववत्क.