________________
काव्यमाला। व्यासज्यवृत्तिधर्माद्यनवच्छिन्नप्रतियोगिकत्वादिनान्योन्याभावविशेषणादिति चेत्, तादृशं विशेषणमेव किमर्थ दीयत इति पर्यनुयोगात् । तत्र विवक्षितबोधनिर्वाहार्थ भिन्नव्युत्पत्तिस्वीकार इति तु ममापि तुल्यम् । नहि 'इवार्थे भेदे तादृशप्रतियोगिताकत्वं विशेषणं देयमेव' इति नियमः, भेदविवक्षायां तत्रोपमात्वस्यापि स्वीकारात् । न चात्र मानाभावः, प्रामाणिकैर्बहुशोऽङ्गीकारात् । प्रत्युत धर्मे चन्द्रभिन्नवृत्तित्वबोधेन चन्द्रस्यान्यनिष्ठसादृश्यप्रतियोगित्वलाभेन चन्द्रनिष्ठसादृश्यप्रतियोग्यन्तरव्यवच्छेदव्यञ्जनानुगुणत्वात् । अन्यथा—उपमानान्तरव्यावृत्तिवत्तदुपमेयान्तरव्यावृत्तेरपि व्यञ्जनप्रसङ्गात् । न चेष्टापत्तिः,—चन्द्रस्यान्यनिष्ठसादृश्यप्रतियोगित्वान्यप्रतियोगिकसादृश्यानाश्रयत्वोभयबोधे चमत्कारोत्कर्षस्यानुभवसिद्धस्यापह्रोतुमनह. त्वादित्यलं बहुना ।
इदं चात्र विभाव्यम्-साधारणधर्मस्य शाब्दत्वे तद्रूपेणैव स इवार्थः । अन्यथा धर्मत्वेनैव । तथा च 'चन्द्र इव मुखं रमणीयम्' इत्यत्र 'चन्द्रप्रतियोगिकान्योन्याभावसमानाधिकरणं यच्चन्द्रवृत्ति रमणीयत्वं तदाश्रयो मुखम्' इति बोधः । 'चन्द्र इव मुखम्' इत्यत्र तु 'तादृशचन्द्रवृत्तिधर्मवन्मुखम्' इति । अत एवात्र श्रौतीत्वमुपपद्यते । साधारणधर्मस्योपमानोपमेज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्येत्यर्थः । व्यासज्यवृत्तिधर्मेति । उभयत्वखरूपेत्यर्थः । आदिपदात्किचिद्विशिष्टचन्द्रत्वादिसंग्रहः । विशेषणादिति । उपमानान्वयाभ्युपगमात् । तथा च उपमानस्य चन्द्रादिपदार्थस्य उपमानतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वसंबन्धेन इवार्थभेदेऽन्वयखीकारात् उभयत्वादेश्वोपमानतावच्छेदकत्वविरहात्तदवच्छिन्नप्रतियोगिताकत्वेन विशिष्टस्यान्योन्याभावस्य चन्द्रान्वयानर्हत्वान्न दोष इत्यर्थः ॥ विशेषणमिति । इवार्थभेदे उपमानस्य उपमानतावच्छेदकावच्छिन्नप्रतियोगिताकत्वेनैवान्वयो भवतीति न वक्तुं शक्यमिति भावः ॥ ननूपमानोपमेयतावच्छेदकयोरैक्य उपमा न खीक्रियत एवेत्याशङ्कते-न चात्रेति । उपमानोपमेययोरैक्येऽप्युपमाखीकारेऽनन्वयोच्छेदापत्तेरित्यर्थः ।प्रामाणिकैरिति । वाचस्पतिमिश्रादिभिरित्यर्थः । दहराधिकरणादौ उपमानोपमेयाभेदेऽपि कल्पितं भेदमाश्रित्योपमेति भामत्यादावङ्गीकृतत्वात् । तच्चानन्वयप्रस्तावे दर्शयिष्यते भिन्नव्युत्पत्तीति । तत्र वृत्तित्वस्य धर्मस्य च इवपदार्थत्वं उपमानतावच्छेदकावच्छिन्नप्रतियोगिताकभेदवदुपमेयकत्वं विवक्षितमित्यपि प्रागुक्तं न विस्मर्तव्यम् । यथोक्तबोधस्वीकारेऽपि न तत्र क्षतिरित्यभ्युपगमवादेनाह-प्रत्युतेति । प्रकृते संगमयति-अत एवेति । यतश्च