________________
अलंकारकौस्तुभः । 'घटत्वम्' इत्यत्र भावप्रत्ययस्य समवायसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकघटवृत्त्यन्योन्याभावप्रतियोगितानवच्छेदकत्वार्थकतया घटवृत्तित्वस्य लामेऽपि समवायसंबन्धेन घटवृत्तित्वस्य घटत्वे प्राप्त्यभावेन प्रकृत्यर्थघटस्य घटत्वे समवायेनान्वयोऽङ्गीकृतः । नहि चन्द्रभिन्नवृत्तित्वेन धर्मस्य मुखवृत्तित्वबोधो भवति, तदन्यवृत्त्यापि तत्पर्यवसानात्। नहि तद्भिन्नत्वावच्छिन्नवृत्तित्वं तदर्थो बाधादिति यत्किचिदेवैतत् । अथैवमनन्वयविलोपापत्तिः, त्वन्मते भेदस्योपमेयान्वयाभावेन तत्रापि चन्द्रभिन्नवृत्तिचन्द्रवृत्तिधर्मवांश्चन्द्र इति बोधसंभवात्-इति चेत्, 'चन्द्रभिन्नत्वे सति चन्द्रगतधर्मवान्' इतिबोधवादिनस्तवापि कथं नैतदोषावकाशः, उभयभेदस्य चन्द्रेऽपि सत्त्वात् । 'शाब्दप्रमायां यथार्थयोग्यता ज्ञानं हेतुः' इति व्युत्पत्तिवादस्थमणिकारव्याख्यानावसरे बाधाभावस्य योग्यतारूपतया वाक्यार्थज्ञानजनकत्वापत्तिरित्युक्त्वा पक्षधरमित्रैरुक्तम् - 'अनुमाने सिद्धसाधनवत् शब्दे पुनरुक्तस्य दोषत्वात्' इति । शब्दखण्डेऽपि वैशेषिकानुमानप्रकरणे 'क्वचिद्योग्यतानिर्णयस्यापि शाब्दधीहेतुत्वम्' इति मूलमधिकृत्य तथा सति वाक्यार्थबोधसत्वात्कथं शब्दस्य तद्बोधकत्वमित्याशङ्कय शाब्दं जायतामितीच्छामाश्रित्य शाब्दबुद्धिः समर्थिता । अत्र च चन्द्रभिनवृत्तित्वे बुद्धेऽपि मुखत्वं विशेष्यतावच्छेदकीकृत्य तादृशधर्मप्रकारकः शाब्दबोधो विवक्षितस्तत्समानाकारकबोधस्य पूर्वमसिद्धया न तथेति। अत एव विसकलितयोरेव पदार्थतत्संसर्गयोस्तात्पर्यग्रह इति न तदर्थमनुमानपूर्व विशिष्टोपस्थिसिरभ्युपयेति वदद्भिः पक्षधरमिश्रस्तात्पर्यविषयत्वस्य संसर्गग्रहे विशेषणत्वे हेतुज्ञानदशायामेव वाक्यार्थबोधापत्त्या कथं शाब्दरूपानुमितिरिति दोषो निराकृतः । तात्पर्यज्ञानस्य शाब्दधीहेतुतावादिभिरपि नैयायिकैस्तादृशरीतेरेवानुमृतत्वादिति दिक् ॥ लाभेऽपीति । घटत्वस्य घटवृत्तित्वं विना घटवृत्त्यन्योन्याभावप्रतियोगितानवच्छेदकत्वानुपपत्तेः । तदवृत्तिघटवृत्तित्वं विना धर्मस्य तद्वृत्तिभेदप्रतियोगितावच्छेदकत्वनिय. मात् । घटावृत्तेः पटत्वस्येव घटवृत्तिभेदे पटत्वावच्छिन्नप्रतियोगिताकभेदस्य घटे सत्वादिति भावः ॥ अङ्गीकृत इति । रामकृष्णभट्टाचार्यादिभिरिति शेषः । एवं च यत्र वस्तुतस्तद्वृत्तित्वं भासते तत्रापि शाब्दसमानाकारकबोधाभावान पौनरुक्तयमिति स्थितिः। अत्र तु मुखभिन्नवृत्तित्वं विनापि चन्द्रभिन्नवृत्तित्वज्ञानपर्यवसानमिति कुतस्तदादाय पौनरुत्त्यप्रसङ्गवार्तापीत्यभिप्रायवानाह-नहीति । तदन्येति । मुखान्येत्यर्थः । बा. धादिति । तादृशरमणीयत्वादेर्घटादावभावादित्यर्थः ॥ विलोपापत्तिरिति । तत्राप्युपमाया एव संभवात् । तवापीति । धर्मविशेष्ये भेदान्वयवादिन इत्यर्थः । ननु चन्द्रभेदस्य चन्द्रान्वयानर्हत्वाच्चन्द्रश्चन्द्रभिन्नत्वे सति चन्द्रगतधर्मवानिति बोधो मत्पक्षे तत्र न संभवतीति कथं साम्यमित्यत आह-उभयेति ॥ घटचन्द्रोभयभेदेऽस्य व्यास