________________
काव्यमाला । मन्मते वृत्तित्व एव न शक्तिः सामानाधिकरण्यसंबन्धेन चन्द्रभेदस्य धर्म एवान्वयाभ्युपगमात्, तथा च 'सामानाधिकरण्यसंबन्धेन चन्द्रभेदविशिष्टो यो धर्मस्तद्वन्मुखम्' इत्येव धी:-इति वाच्यम् , ममापि 'खाश्रयवृत्तित्वसंबन्धेन भिन्नविशिष्टो यो धर्मस्तद्वत्' इति वक्तुमव्याघातात् । ___एतावान्परं विशेषः—तव विशेषणतासमवायाधुभयघटितं सामानाधिकरण्यं संसर्गः, मम त्वभेदसमवायादिघटितं तदिति विशेषणतापेक्षया च तादात्म्यस्य लाघवमिति सांप्रदायिकसिद्धतया तादात्म्यस्य सामानाधिकरण्यघटितत्वे लाघवं परं ममातिरिच्यते । अथ चन्द्रभिन्नाश्रयवृत्तित्वबोधेनैव मुखस्य तद्वत्त्वधीसिद्धया मुखे तद्वत्त्वस्य पौनरुक्त्यापत्तिः—इति चेत् । सामानाधिकरण्यसंबन्धेन धर्मे चन्द्रवैशिष्टयबोधेऽपि तुल्यमेतत् । सांसर्गिकविषयतायाः सत्त्वेऽपि तत्प्रकारकबोधाभावान्न तथेति चेत् । ममापि समानमेव समाधानम् । एवं सति चन्द्रगतत्वबोधानुपपत्तिः । तथाच--- तन्निरूपितसादृश्यबोधानुपपत्तिः—इत्यप्यावयोस्तुल्यम् । चन्द्रवृत्तित्वप्रकारकबोधानुरोधेन तत्र शक्तिरेवेत्यपि तुल्यमेव । न च-चन्द्रभिन्नवृत्तित्वबोधे मुखे तद्वत्ताज्ञानं न स्यात् अनाकाङ्क्षत्वात्-इति वाच्यम् , मुखविशेष्यकतद्धर्मप्रकारकबोधस्य ततोऽभावेन पौनरुक्त्याभावात् । अत एव
तथा च वृत्तित्वनिष्ठेत्यादिहेतुहेतुमद्भावो सिद्ध एव । त्वया तु वृत्तित्वे शक्तिस्तत्र भिन्नान्वयाय हेतुहेतुमद्भावश्च कल्प्य इति गौरवमिति भावः । सांप्रदायिकेति । विशेषणतायाः स्वरूपसंबन्धत्वेऽतिरिक्तत्वे वा गुरुत्वमेवेति तत्र तत्र ग्रन्थदर्शनात् । तथा चाणुरपि विशेषोऽध्यवसायकार इति न्यायेन मन्मत एव लाघवमित्यर्थः । इदं चाभ्युपेत्योक्तम् ॥ वस्तुतस्तु एतत्पक्षे वृत्तित्वसंबन्धमात्रेण भिन्नस्य धर्मान्वयः । तथा च सामानाधिकरण्यापेक्षया तस्य संसर्गत्वे स्पष्टमेव लाघवमिति नानुपपत्तिः ॥ पौनरुक्त्यापत्तिरिति । चन्द्रभिन्नाश्रयवृत्तित्वे धर्मस्यावगाह्यमाने मुखस्यापि चन्द्रभिन्नतया तद्वृत्तित्वस्याप्यवगाहनात् ॥ सामानाधिकरण्यसंबन्धेनेति । विशेषणतासंबन्धेन चन्द्रभेदाधिकरणे समवायादिना रमणीयत्वादेर्वृत्तित्वे संसर्गतयावगाह्यमाने मुखस्यापि तादृशभेदाधिकरणतया तत्रापि धर्मस्य वृत्तित्वग्रहात् । सामानाधिकरण्यस्य उभयत्रापि संसर्गत्वाविशेषादित्यर्थः ॥ सांसर्गिकेति । यद्यपि तत्रापि मुखे धर्मवैशिष्टयं विशिष्य न भासते इति न पौनरुक्त्यावकाशस्तथापि तदभ्युपेत्येदमुक्तम् ॥ मुखविशेष्यकेति। अयमाशयः-पौनरुत्तयं हि शाब्दसमानाकारकज्ञाने च तत्पूर्व सत्येव भवति । अत एव