________________
अलंकारकौस्तुभः । वृत्तित्वे धर्मे चेवशब्दस्य शक्तिः, त्वयापि शक्तित्रयस्यैवोक्तविषये कल्प्यत्वात् । नच-मम भेदे शक्तिः, तव तद्वतीति वाच्यम् , भेदवत्यप्येकस्या एव शक्तेः कल्प्यत्वात् । न च-भेदत्वं शक्यतावच्छेदकम्, तव तु भेद इति वाच्यम् , तस्यापि भेदघटितत्वात् । तत्र च प्रतियोगितासंबन्धेन तदेकदेशे भेद उपमानस्य चन्द्रादेरन्वयः । भिन्न पदार्थ]स्य च वृत्तित्वे चन्द्रस्यापि वृत्तित्वेऽन्वय आकाङ्क्षाबलात् । न च-चन्द्रभिन्नस्य वृत्तित्वान्वयो मदपेक्षयाधिकः-इति वाच्यम् ; वृत्तित्वनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेणान्वयबोधं प्रति चन्द्रादिपदजन्योपस्थितित्वेन हेतुत्वस्य त्वयापि कल्पनीयतया तत्र चन्द्रादिकमभिनिवेश्य भेदप्रतियोग्यनुयोग्यन्यतरार्थकपदजन्योपस्थितित्वेनैव कारणताकल्पनात् ।उपमानानामनन्ततया तद्धटितकार्यकारणभावानामानन्त्येन तदपेक्षयोक्तरीतेरेव लाघवेनादरणीयत्वात् । न च
दक एव बोधः , अत एव मुखं चन्द्रभिन्नं न वेति मुखत्वावच्छिन्नविशेष्यताकसंशयो न निवर्तते । मुखं चन्द्रभिन्नमिति बोधाभ्युपगमे तु सोऽपि निवर्तेत इत्यर्थः । तद्वतीति । भेदवतीत्यर्थः । एकस्या एवेति । शक्तिबाहुल्यस्यैव गौरवावहत्वादित्यर्थः । विषयगौरवमुद्भावयति-न चेति । भेद इति । तथा च त्वया भेदवतः शक्यत्वे भेदस्य शक्यतावच्छेदकता भेदत्वस्य च शक्यतावच्छेदकता(वच्छेदकता) कल्प्या, जात्यतिरिक्तपदार्थ निष्ठावच्छेदकतायाः किंचिद्धर्मावच्छिन्नत्वनियमादिति गौरवमिति भावः ॥ त. स्यापीति।भेदत्वस्याखण्डोपाधित्वे प्रमाणाभावेन भेदघटितसखण्डोपाधिरेव भेदत्वमिति तन्निवेशस्य तवापि सत्त्वादित्यर्थः ॥ तस्मात्पूर्वमते वृत्तित्वे शक्तिरत्र तु भिन्ने धर्मे वृत्तित्वे च मतद्वयेऽपि शक्तिरिति ध्येयम् । अत एव पूर्व वृत्तित्वं पृथगेवार्थ इत्यत्रोक्तग्रन्थसंमतिरपि दर्शितेति। भिन्नपदार्थेति । भेदवतः पदार्थत्वे भेदस्य तदेकदेशत्वात् । अन्यथा इवपदार्थत्वेन भिन्नपदार्थ इत्यसंगतं स्यात् । तथा च भिन्नरूपो यः पदार्थ इति कर्मधारयः । न च पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेनेति कथमेतदिति वाच्यम्, स संबन्धिकस्थले चैत्रस्य भ्रातेत्यादावेकदेशान्वयाभ्युपगमात् । अतस्तादृशस्थले तत्पदार्थप्रकारकशाब्दबुद्धौ अवच्छेदकतासंबन्धेन तत्पदजन्योपस्थितेर्हेतुत्वमभ्युपेयम्॥मदपेक्षयति। चन्द्रस्य भेदान्वयो वृत्तित्वान्वयश्चोभयत्र तुल्यः, भिन्नस्य वृत्तित्वे पुनरन्वयस्तु तवाधिक इति गौरवमिति भावः । भेदप्रतियोगीति । यद्यप्येतदपेक्षयोपमानार्थकपदजन्योपस्थितित्वेन कारणत्वकल्पने गौरवभेदाभावस्तथाप्युपमानत्वस्य सादृश्यप्रतियोगित्वरूपतया सादृश्यस्य तद्भिन्नत्वादिबहुधर्मघटिततया गौरवमेवेत्यवधेयम् ॥ यदि तु चन्द्रादिपदजन्योपस्थितित्वेनैव कारणता कल्प्यते तत्राह-उपमानानामिति । न च मदिति ।