________________
६२
काव्यमाला |
वगाहितयैव न तथा । नहि चन्द्रगतधर्माभिन्नधर्मो ग्राह्यः, अपि तु तत्सजातीय इति । तादृशाभावावगाहि न एव तर्हि निवेश आवश्यक:इति चेत् । तवापि तुल्यमिति दत्तोत्तरत्वात् । एवं 'मुखं न चन्द्रगतधमवत्' इति बाधाभावादयोऽप्युभाभ्यामेव निवेशनीया इति । न च ' मुखं न चन्द्रभिन्नम्' इति मानसं प्रति 'चन्द्र इव मुखम् ' इति शाब्दबोधसामग्र्याः प्रतिबन्धकत्वाकल्पनेन मम लाघवम् । तत्काले विशेष्यतावच्छेदकप्रकारकनिर्णयविधया 'मुखं चन्द्रभिन्नम्' इति निर्णयस्यावश्यकतया तत एव मानसवारणात् — इति वाच्यम्, 'चन्द्रान्यवृत्तिधर्मो न चन्द्रवृत्तिः' इति मानसं प्रति तादृशसामग्र्याः प्रतिबन्धकत्वाकल्पनप्रयुक्तलाघवस्य ममापि समत्वात् । सामग्रीप्रतिबन्धकतायां तादृशाभावनिवेशापेक्षया सामग्रीप्रतिबन्धकत्वकल्पनेऽपि लाघवसंभवाच्च ॥
नापि द्वितीयः – चन्द्रगतधर्मस्य विधेयत्वप्रतीतिवच्चन्द्रभेदस्यापि मुखे विधेयत्वेन प्रतीत्यापत्तेः । न चेष्टापत्तिः, अनुभवविसंवादात् । अत एव 'मुखं चन्द्रगतधर्मवन्न वा' इति संशयस्यैवेतो निवृत्तिः, न तु 'चन्द्रभिन्नं न वा ' इत्यस्येति । मम तु 'विशेष्ये विशेषणम्' इति न्यायेन मुखे धर्मस्य तत्र चन्द्रभिन्नवृत्तित्वस्य च धर्मे मानाभ्युपगमेऽपि मुखे धर्मस्यैव विशेषणतया मुखोद्देश्यकधर्मविधेयकप्रतीतिनिर्वाहान्नानुपपत्तिलेशोऽपि । तथा च भिन्ने
प्रतिबन्धकत्वासंभवाद्विशेषणतावच्छेदकप्रकारकज्ञानसत्त्वेन तादृशशाब्दबोधोत्पत्तौ बाधकाभावात् ॥ त्वया तूक्तरीत्या मुखत्वावच्छिन्नविशेष्यताकचन्द्रभेदप्रकारकज्ञानखीकारान्मुखत्वावच्छिन्नविशेष्यताकचन्द्रभेदाभावप्रकारकज्ञानसत्त्वे च तादृशज्ञानानुदयात् । विशेष्यतावच्छेदकप्रकारकज्ञानाभावे च तादृशविशिष्टबोधानुपपत्तेरवश्यमुक्तबाधाभावो निवेश्य इत्याशयः॥ उभाभ्यामेवेति । मुखे चन्द्रगतधर्मवैशिष्टयस्योभयमतेऽपि ग्राह्यत्वाभ्युपगमादित्यर्थः । लाघवसंभवादिति । सामग्र्यां बाधाभावनिवेशे इतर - कारणैः सह विशेष्यविशेषणभावे विनिगमनाविरहेण गौरवमित्यर्थः ॥ प्रतीत्यापत्तेरिति । चैत्रो दण्डी कुण्डलीत्यादौ दण्डकुण्डलयोर्द्वयोरपि विधेयत्वप्रतीतेः ॥ विसंवा दादिति । धर्मस्यैव विधेयत्वानुभवान्न तु भेदस्यापीति ॥ अत एवेति । विशेष्ये विशेषणमिति रीत्या बोधाभ्युपगमादेवेत्यर्थः । अत एवात्र चन्द्रभेदांशे निर्धर्मितावच्छे
१. साम्राज्येन.