________________
अलंकारकौस्तुभः ।
६१
कार्य मुखत्वावच्छिन्नविशेष्यताकचन्द्रभेदाभावप्रकारकनिर्णयस्य मुखत्वावच्छिन्नविशेष्यताकचन्द्रभेदप्रकारकज्ञानप्रतिबन्धकतया तदानीं 'मुखं चन्द्रभिन्नम्' इति विशेष्यतावच्छेदकज्ञानाभावेन शाब्दबोधानुदयात् । मन्मते तूक्तबोधस्य चन्द्रभेदांशे निर्धर्मितावच्छेदकत्वेन मुखत्वावच्छिन्नविशेष्यताकचन्द्रभेदाभावप्रकारक निर्णयप्रतिबध्यतावच्छेदकानाक्रान्ततया तादृशशाब्दबोधोत्पत्तौ बाधकाभावेन तदभावनिवेशने प्रयोजनाभावात् । न च — 'चन्द्रवृत्तिधर्मो न चन्द्रान्यवृत्तिः' इति बाधाभावस्त्वयापि सामग्री प्रतिबन्धकतायां निवेशनीयः— इति वाच्यम्, तन्निवेशस्य तवाप्यावश्यकत्वात् । तादृशज्ञानसत्त्वे 'मुखं चन्द्रगतधर्मवत्' इति ज्ञानस्याप्यनुत्पत्तेः । चन्द्रान्यवृत्तित्वावच्छिन्नाभावस्य तद्विषयत्वात् । वस्तुत इदं प्रतिबन्धकमेव नास्ति द्रव्यत्वादेश्चन्द्रतद्भिनोभयवृत्तित्वात् । तन्मात्रगर्भं च ग्राह्याभावान
चाक्षुषे तादृशशाब्दसामग्र्यभावहेतुतायां व्यभिचारापत्तेः ॥ ननु तदापि शाब्दबोध एव कुतो न भवतीत्याह - मुखत्वेति । मुखं चन्द्रभेदाभाववदिति ज्ञानस्य मुखं चन्द्रभिन्नमित्याकारकज्ञानं प्रति प्रतिबन्धकत्वात्तादृशज्ञानसत्त्वे मुखं चन्द्रभिन्नमिति ज्ञानानुदयात् तद्व्यतिरेकेण च विशेष्यतावच्छेदकप्रकारकज्ञानविरहेण चान्द्रभिन्नं मुखं चन्द्रगतधमवदिति शाब्दबोधासंभवात् । तथा चाहुः - ' अवान्तरवाक्यार्थायोग्यत्वनिर्णयदशायां महावाक्यार्थज्ञानानुदयात् ' इति ॥ अत्र मुखं चन्द्रभेदाभाववदिति ज्ञानं मुखत्वावच्छेदेन चन्द्रभेदाभावप्रकारकमवशेयम् । अन्यथा विशेष्यतावच्छेदकसामानाधिकरण्येन बाधज्ञानस्य विशेष्यतावच्छेदकसामानाधिकरण्येन विशिष्टबुद्धिप्रत्ययविरोधितया मुखत्वसामानाधिकरण्येन चन्द्रभेदाभावग्रहेऽपि मुखत्वसामानाधिकरण्येन चन्द्रभेदप्रकारकज्ञानसंभवात् । मुखत्वावच्छेदेन तदभावग्रहे तु मुखत्वसामानाधिकरण्येनापि न चन्द्रभेद - ग्रहसंभवः, विशेष्यतावच्छेदकावच्छेदेन तदभाववत्ताज्ञानस्य विशेष्यतावच्छेदकावच्छेदेन विशेष्यतावच्छेदकसामानाधिकरण्येन च तद्विशिष्टबुद्धौ विरोधित्वात् ॥ ननु तादृ
बाधाभावो भवतापि निवेश्य एवेति सामान्यमेवेत्यत आह- मन्मते त्विति । उक्तबोधस्येति । चन्द्रभिन्नवृत्तित्वविशिष्टचन्द्रगतधर्मवदित्यर्थः । निर्धर्मितेति । चन्द्रभिनेत्यत्र हि चन्द्रभेदप्रकारक एव बोधः, न तु मुखत्वादिकं धर्मितावच्छेदकीकृत्य वह्निव्याप्यवान्पर्वत इति धूमत्वाद्यनालिङ्गितव्याप्तिप्रकारकज्ञानवदित्यर्थः । अनाक्रान्ततयेति । तद्धर्मावच्छिन्नविशेष्यताकतद्विशिष्टबुद्धिं प्रति तद्धर्मावच्छिन्नविशेष्यताकतदभाववत्ताज्ञानस्यैव प्रतिबन्धकत्वात् । मुखं चन्द्रभेदाभाववदिति मुखत्वावच्छिन्न विशेष्यताकचन्द्रभेदप्रकारकज्ञानस्य किंचिद्धर्मानवच्छिन्न विशेष्यताकचन्द्रभेदप्रकारकज्ञाने