________________
काव्यमाला।
वच्छेदकीकृत्यान्यपदार्थविशेष्यकतत्पदार्थप्रकारकशाब्दज्ञानस्याप्रसिद्धत्वाच्च। 'चन्द्रभिन्नवृत्तित्वविशिष्टो यश्चन्द्रवृत्तिधर्मस्तद्वत्' इत्यस्मत्संमते बोधे तु चन्द्रभिन्नवृत्तित्वविशिष्टचन्द्रवृत्तिधर्मस्य मुखे वैशिष्ट्यं विषयः । तत्र च 'चन्द्रभिन्नवृत्तित्वविशिष्टश्चन्द्रवृत्तिधर्मः' इति विशेषणतावच्छेदकप्रकारकज्ञानमवान्तरवाक्यार्थयोग्यताज्ञानविधया चापेक्षितम् । अथवा-मुखे चन्द्रवृत्तिधर्मस्य तत्र च चन्द्रभिन्नवृत्तित्वस्य वैशिष्ट्यमिति विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति न्यायेनैव बोधः । तथा च 'चन्द्र इव मुखम्' इति शाब्दबोधसामग्र्याः 'मुखं न चन्द्र इव' इति चाक्षुषादिकं प्रति प्रतिबन्धकत्वे कल्पनीये भवता 'मुखं न चन्द्रभिन्नम्' इत्यादिबाधाभावादिनिवेशनं बोधो भवत्येवेत्यत उक्तम्-अन्यपदार्थविशेष्यकेति । धर्मितावच्छेदकान्तरावच्छिन्नविशेष्यताकेत्यर्थः । तत्र चैत्रान्यत्वेनैव तस्य भानं न तु रूपान्तरेण विशेष्यति भावः । एकपदार्थधर्मितावच्छेदकान्यपदार्थविशेष्यकबोधोऽपि श्यामश्चैत्रः पचतीत्यादावेव प्रसिद्ध इत्येतदुक्तम्-तत्पदार्थप्रकारकेति । यस्य पदस्यार्थो धर्मितावच्छेदकत्वेन भातस्तस्य तत्पदार्थस्येत्यर्थः । कृतिस्तु न श्यामपदार्थ इति न दोष इति भावः ॥ संप्रति स्वोक्तविशिष्टशक्तिपक्षसमानाकारकबोधमङ्गीकृत्य खाभिमतं विशिष्टस्य वैशिष्टयमिति न्यायेन बोधमाह-चन्द्रभिन्नेति । रक्तदण्डवान्पुरुष इत्यत्र रक्तत्वविशिष्टदण्डस्य पुरुष इव चन्द्रभिन्नवृत्तित्वविशिष्टचन्द्रावृत्तिधर्मस्य मुखे वैशिष्यम् एतादृशबोधे च विशेषणतावच्छेदकप्रकारनिर्णयः कारणम् , रक्को दण्डो न वेति संशयसत्वे रक्तदण्डवानिति बोधानुदयात् ॥ विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति न्यायेनाप्याह-अथ. वेति । यथा रक्तदण्डवान्पुरुष इति ज्ञाने पुरुषे दण्डस्य, दण्डे च रक्तत्वस्य, वैशिष्टयं भासते तथा मुखे चन्द्रगतधर्मस्य, धर्मे च चन्द्रभिन्नवृत्तित्वस्य वैशिष्टयं भासत इ. त्यर्थः ॥ चन्द्रभिन्नं मुखं चन्द्रगतधर्मवदिति बोधे मुखं चन्द्रभिन्नमित्यादिज्ञानापेक्षाभिधानात्प्रयुक्तगौरवोपन्यासमुखेन दूषयितुमाह-तथा चेति । चन्द्र इवेति । चन्द्रभिन्नं मुखं चन्द्रगतधर्मवदिति चन्द्रभेदावच्छिन्नं मुखनिष्ठविशेष्यताकचन्द्रगतधर्मप्रकार. कशाब्दबोधजनिकायाः सामग्र्या इत्यर्थः । मुखं न चन्द्र इवेति । मुखवृत्तिचन्द्रसादृश्याभावविषयकचाक्षुषेत्यर्थः । समानविषये प्रत्यक्षसामग्र्या एव बलवत्वान्मुखं चन्द्र इवेति चाक्षुषं प्रति तादृशसामग्र्याः प्रतिबन्धकत्वमिच्छां विना अप्रसिद्ध मिति चाक्षुषसामग्र्या अभावविषयकत्वमुक्तम् । तथा च सादृश्यविषयकशाब्दसामग्र्याः सादृश्याभावरूपभिन्नविषयकचाक्षुषं प्रति प्रतिबन्धकत्वम् । भिन्नविषये प्रत्यक्षसामग्र्यपेक्षया शाब्दसामग्र्या एव बलवत्त्वखीकारादिति भावः। बाधाभावेति । अन्यथा तदतिरिक्तमुखं चन्द्र इत्येतादृशशाब्दसामग्रीसत्त्वेऽपि मुखं न चन्द्र इवेति चाक्षुषस्यैवोत्पत्त्या तादृश