________________
अलंकारकौस्तुभः ।
५९ योग्यताज्ञानस्य महावाक्यार्थहेतुतयाप्यपेक्षणीयत्वाच्च । तत्पदार्थ धर्मितावान्तरवाक्यार्थज्ञानविधयापेक्षेति भावः ॥ ननु तादृशबोधे तथाविधज्ञानहेतुताया कृप्तत्वात्तदपेक्षायां को दोष इत्यत आह-तत्पदार्थमिति । भेदो धर्मश्च द्वयमपि इवार्थः । ततश्च इवपदार्थभेदं धर्मितावच्छेदकीकृत्य मुखपदार्थविशेष्यकधर्मरूपेव पदार्थप्रकारको बोधो व्युत्पत्तिविरहान स्वीकर्तुं शक्यत इत्यर्थः । अत एव 'ग्रहं संमाष्टि' इत्यत्र एकत्वकर्मत्वयोविभक्त्या युगपदेव बोधानैकत्वविशिष्टग्रहोद्देशे न संमार्गविधिरिति मीमांसकाः ॥ नन्वदर्शनमात्रमप्रयोजकमिति चेत् , न, तत्पदार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासंबन्धेन पदान्तरजन्योपस्थितेर्हेतुत्वकल्पनात् । तत्र चैकस्य धर्मितावच्छेदकत्वाख्या प्रकारता, अन्यस्य च विधेयत्वाख्येति वैषम्यानौचित्यात् । युगपदेव तदर्थद्वयोपस्थित्या वैषम्ये प्रमाणाभावात् भेदप्रकारकवोधे मुखपदजन्योपस्थिते: पृथकारणत्वं कल्पयित्वा धर्मप्रकारकबोधे भेदनिष्ठधर्मितावच्छेदकतानिरूपितमुखनिष्ठविशेष्यतासंबन्धेन मुखपदजन्योपस्थितेः कारणत्वकल्पने चातिगौरवात् ॥ ननु चैत्रः पचतीत्यत्र एकत्वविशिष्टश्चैत्रः पाकानुकूलकृतिमानित्याख्याताईंकत्वधर्मितावच्छेदकतदन्यचैत्रपदार्थविशेष्यकाख्यातार्थकृतिप्रकारकबोधः प्रसिद्ध एवेति । न च तत्रैकत्वस्य प्रथमैकवचनार्थत्वान्नाख्याताथैकत्वम् , आख्याताथैकत्वस्य साधुत्वमात्रार्थत्वेनानन्वयात् । चैत्रस्य समानाभिधानश्रुत्या खोत्तरवर्तिविभक्त्यर्थसंख्यावरुद्धत्वेनाख्यातार्थसंख्यायास्तदन्वयाभावादिति वाच्यम् , नैयायिकैराख्यातार्थसंख्याया एव तत्रान्वयोपगमात् । यं यं भावनानुधावति तं तं संख्यापीति तत्सिद्धान्तात् । न चोक्तरीत्या स सिद्धान्तो नियुक्तिक इति वाच्यम्, प्रथमायाः प्रातिपदिकार्थमात्रे विधाने तात्पर्यग्राहकतया एकत्वस्यापि तदर्थत्वाभावे क्षतिविरहात् तन्मतेऽपि सर्वत्राप्यध्याहारस्यावश्यकतया आख्यातार्थसंख्याया एव तादृशस्थले सर्वत्रान्वयोपपत्तेः प्रथमायास्तात्पर्यग्राहकत्वस्य कुप्ततया संख्यांशेऽपि तत्कल्पने लाघवाच्च । अत एव 'शुद्धप्रातिपदिकार्थप्रतिपिपादयिषायां प्रथमा' इति महाभाष्यादिग्रन्थानुकूल्यमिति चेत्सत्यम्, एकशक्ततावच्छेदकावच्छिन्नवाचकताया विवक्षितत्वात् । तत्र ह्येकत्ववाचकर्ता तिप एकवचनत्वावच्छिना, घटमित्यादावप्येकत्वबोधात् । कृतिवाचकताख्यातत्वावच्छिन्ना पचत इत्यादावपि कृतिबोधात् । प्रकृते त्विवपदत्वावच्छिन्नैव इवपदस्योभयवाचकतेति भेदात् । वस्तुतस्तु तत्राप्येकत्वस्य कृतिधर्मितावच्छेदकत्वे मानाभावः, पाकानुकूलवर्तमानकृतिमानेकश्चैत्र इ. त्येव बोधसंभवात् । श्यामश्चैत्रः पचतीत्यत्र झ्यामत्वं धर्मितावच्छेदकीकृत्य चैत्रपदार्थविशेष्यकाख्यातार्थकृतिप्रकारकबोधदर्शनादुक्तम्-तत्पदार्थ धर्मितावच्छेदकीकृत्येति । तत्र शामत्वस्याख्यातार्थत्वाभावाददोषः । चैत्र एव पचतीत्यत्र चैत्रान्यः पाकानुकूलकृत्यभाववानित्येवकारार्थ भेदं धर्मितावच्छेदकीकृत्य एवकारार्थाभावप्रकारक
१. 'ता प्रातिपदिकत्वावच्छिन्ना.'