________________
६८
काव्यमाला।
वार्थः । चन्द्रत्वावच्छिन्नप्रतियोगितासंबन्धेन चन्द्रादेर्भदेऽन्वयः, तस्य च विशेषणताविशेषसंबन्धेन मुखादौ, धर्मस्य समवायादिना मुख एव । तथा च–'चन्द्रभिन्नं मुखं चन्द्रगतधर्मवत्' इति बोधः—इति चेत् । मैवम् । तथाहि-किमत्र 'विशिष्टे वैशिष्ट्यम्' इति रीत्या बोधः, उत ‘एकत्र द्वयम्' इति । नाद्यः-चन्द्रभेदविशिष्टे मुखे चन्द्रगतधर्मवैशिष्ट्यभानस्य चन्द्रभेदं धर्मितावच्छेदकीकृत्य चन्द्रगतधर्मप्रकारकज्ञानरूपतया मुखत्वधर्मितावच्छेदकचन्द्रभेदप्रकारकावान्तरवाक्यार्थज्ञानस्य पूर्वमभ्युपगम्यत्वात् । मुखत्वावच्छिन्नविशेष्यताकचन्द्रभेदप्रकारकज्ञानरूपविशेष्यतावच्छेदकप्रकारकज्ञानस्यावान्तरवाक्यार्थज्ञानपूर्वमपि योग्यताज्ञानविधयापेक्षणीयत्वाच्च । चन्द्रभेदावच्छिन्नमुखनिष्ठविशेष्यताकचन्द्रगतधर्मप्रकारक
इत्यादौ, चन्द्रत्वावच्छिन्नप्रतियोगिताकभेदस्य चन्द्रे अभावादित्यर्थः । तस्य चेति । भेदस्येत्यर्थः । धर्मस्य रमणीयत्वादेः । समवायेति । प्रकृताभिप्रायम् । यद्यपि तद्गतधर्म एवात्रेवार्थ उक्तः, तथापि वृत्तित्वं धर्मश्च पृथगेव तदार्थावित्यवधेयम् । अत एवाग्रे 'तथा च भिन्नवृत्तित्वे धर्मे च इवपदस्य शक्तिः' इति वक्ष्यति । वृत्तिधर्मे एकशक्तिस्वीकारेऽपि पदार्थैकदेशतया वृत्तौ चन्द्रान्वयो न स्यात् । चन्द्रादेश्च चन्द्रादिः पदेनैव लाभेन चन्द्रवृत्तिधर्मे शक्तिकल्पनानौचित्यादनन्तशक्तिकल्पनापत्तेश्च । विशिष्ट इति । एकविशेषणविशिष्टे विशेषणान्तरवैशिष्टयमिति रीत्या दण्डी चैत्रकुण्डलीति दण्डविशिष्टचैत्रत्वं धर्मितावच्छेदकीकृत्य कुण्डलवैशिष्टयबोधात् । चन्द्रभेदविशिष्टमुखत्वं धर्मितावच्छेदकीकृत्य तद्गतधर्मप्रकारक इत्यर्थः । एकत्रेति । चैत्रो दण्डी कुण्डलीति शुद्धचैत्रत्वं धर्मितावच्छेदकीकृत्य दण्डकुण्डलोभयप्रकारकबोधवत् शुद्धमुखत्वं धर्मितावच्छेदकीकृत्य चन्द्रभेदतद्गतधर्मोभयप्रकारक इत्यर्थः ॥ मुखत्वस्योभयत्रापि धर्मितावच्छेदकतया विचारानन्तर्गतत्वाच्चन्द्रभेदस्यैव धर्मितावच्छेदकतां दर्शयति-चन्द्रभेदमिति । यद्विशिष्टे विशेषणान्तरवैशिष्टयं भासते तस्यैव धर्मितावच्छेदकत्वादित्यर्थः । मुखत्वेति । मुखं चन्द्रभिन्नमित्याकारस्येत्यर्थः । अवान्तरेति । विशिष्टे वैशिष्टयमिति विषयताशालिबोधे विशेष्यतावच्छेदकप्रकारकनिर्णयस्य हेतुत्वात् वहिव्याप्यधूमवान्न वा पर्वत इति संशये वह्विव्याप्यधूमवान्पर्वती घटत्वात् इति ज्ञानानुदयात् । चन्द्रभिन्नं मुखं चन्द्रगतधर्मवदिति बोधहेतुतया मुखं चन्द्रभिन्नमिति निर्णयो विशेष्यतावच्छेदकप्रकारकनिर्णयविधया पूर्वमपेक्षणीय इति भावः । तथा च महावाक्यार्थबोधात्पूर्वमवान्तरवाक्यार्थज्ञानस्योक्तविधया ततोऽपि पूर्व योग्यताज्ञान विधया शाब्दसमानकारकस्य मुखं चन्द्रभिन्नमित्यस्यापि ज्ञानान्तरस्या