________________
अलंकारकौस्तुभः । प्रथमपक्षे रमणीयत्वादिधर्मस्यैकत्वे तत्राभेदेन धर्मान्वयसंभवः, न तु द्वितीये, इति । तस्माद्विशिष्टशक्तिपक्षे धर्म एव शक्तिकल्पनमुचितम् । इदं चात्र पक्षद्वये तुल्यं विभाव्यम्-अक्षादिपदवदिवशब्दस्य नानार्थतैव । तत्तत्समभिव्याहारस्य नियामकत्वाच्च तथा तथा बोधः । येन संबन्धेन धर्मस्योपमानोपमेयवृत्तित्वं तत्र तस्यैव संसर्गत्वम्, यत्र चोपमानेऽन्यसंबन्धेन, उपमेये च संबन्धान्तरेण धर्मस्य वृत्तित्वम्-यथा—'वागर्थाविव संपृक्तौ' इत्यत्र वागर्थयोर्वाच्यवाचकभावखरूपेण वृत्तित्वम्, पार्वतीपरमेश्वरयोस्तु संयोगस्य समवायेन (?), तत्र तत्तत्प्रकारतायां तस्य तस्य संसर्गत्वम् । न चैवं चन्द्रादिपदवैयर्थ्यापत्तिः, तात्पर्यग्राहकत्वेन तदुपयोगात् । त्वप्रत्ययादीनां विशिष्टशक्तिमते घटादिपदवत् । 'चन्द्र इव चन्द्रः' इत्यादौ भिन्नशक्तिकल्पनाद्विलक्षणो बोध इति दिक् ॥ अथ-भेदः, तद्गतधर्मश्चे
वृत्तित्वं चन्द्रवृत्तित्वे न विशेषणं न वा धर्मे किंतु चन्द्रभेद एव सामानाधिकरण्येन धर्मे विशेषणं ततश्च चन्द्रनिष्ठप्रकारतानिरूपितयथोक्तसामानाधिकरण्यनिष्ठसांसर्गिक. विषयतानिरूपितधर्मनिष्टविशेष्यताशालिज्ञानत्वमत्र इवपदशक्तिज्ञानस्य कार्यतावच्छेदकम् । धर्मत्वशक्तिपक्षे तु यथोक्तधर्मनिष्टविशेष्यताख्यप्रकारतानिरूपिताधिकरणत्वनिष्ठविशेष्यताशालिज्ञानत्वं तथेति स्पष्टमेव गौरवम् ॥ उपसंहरतितस्मादिति । सादृश्यं यद्यपि तद्भिनत्वे सति तद्गतधर्मवत्वमेव, तथापि इवपदस्य धर्म एव शक्तिः कल्प्यते विवक्षितविवेकेन तथा पर्यवसानादिति भावः । उभयत्रापि फलितार्थमाह-इदं चेति । नानार्थेति । चन्द्रभिन्नत्वादिरूपेणैव शक्तिस्वीकारात् ॥ नन्वेवं गौरवमनन्तशक्तिकल्पनादित्यत आह-अक्षादिति । प्रामाणिकत्वेन गौरवस्यापि सोढव्यत्वादित्यर्थः । वागर्थाविति । पर्यवसितबोधाभिप्रायेणेदम् । संबन्धपदात्संयोगत्वादिरूपेण संयोगादेरनुपस्थितत्वात् । त्वप्रत्ययादीनामिति । तेनैव घटेतरावृत्तित्वादिरूपार्थबोधनादित्यर्थः । नन्वेवं चन्द्र इव चन्द्र इत्यादावनन्वयालंकारो न स्यात्, भेदस्य तत्राभावादित्यत आह-चन्द्र इ. वेति । भिन्नेति । तच्च तत्रैव वाच्यमिति भावः ॥ विशिष्टशक्तिपक्षमुक्त्वा खण्डशक्तिपक्षमाश्रित्य विचारयति-अथेति । चन्द्रादिपदानां स्वार्थपरत्वं शक्तित्रयकल्पनेनानन्तशक्तिपरिहारश्चात्र पूर्वस्माद्विशेषः । अनन्वयालंकारव्यावृत्त्यर्थमाह-चन्द्रत्वावच्छिन्नेति । इदं च चन्द्र इव मुखमित्यादावेव संभवति न तु चन्द्र इव चन्द्र
१. 'इवपदस्य नानार्थतैव । अक्षादिपदत्तत्तत्समभिव्याहारस्य' इत्येवं पाठो भवेत्.